पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २९६ )
[ पञ्चमः
अभिज्ञानशाकुन्तलम् ।


( नेपथ्ये )

 वैतालिकौ-विजयतां देवः ।


दुत्कण्ठापरिपूर्तिः । एतावदाभिमानिकं (?) मुखमिति भावः । लब्धस्य प्राप्तस्य फलस्य यत्परितः सर्वतोभावेन पालनं रक्षणं तत्र या वृत्तिर्वर्तना कदाचित्सर्वरात्रिजागरणं तत्रैव कदाचिदच्छिन्नधारावृष्ट्यनुभव इत्यादि- कमेनं राजानं क्लिश्नाति । अतः कारणाद्राज्यम् । कर्तृ । अत्यन्तं यः श्रमस्तदपनयनायेति न । अपि त्वतिश्रमापनयनायैव मुखदत्वात् । श्रमापनयायेति ( श्रमायेति ) न अपि तु श्रमायैव क्लेशदत्वात् । कि मिव | स्वहस्ते धृतो दण्डो यस्य तदातपत्रं छत्रमिवेति । अत्र राज्यं पक्षः श्रमापनयश्रमौ साध्यौ । पूर्वार्धं हेतुः । चतुर्थचरणो दृष्टान्त इत्यनुमानालंकारः । उपमानानुमानयोरङ्गाङ्गिभावः संकरः। यच्छ्रमाप नयनाय तच्छ्रमायेति विरोधाभासः । यथासंख्यमपि । अथ च संबन्धेऽ- संबन्धरूपासंबन्धे संबन्धरूपाद्वय्यतिशयोक्तिरपि । श्रमाश्रमेति नयना येति यनायनेति वा छेक [ वृत्त्य] नुसुप्रासयोः संसृष्टिः। श्रुत्यनुप्रासोऽपि । एकान्तसुखायतनत्वभ्रमेण राज्य आसक्ततया न भवितव्यमित्युपदेशो व्यज्यते । वसन्ततिलका वृत्तम् । अधिकारखेदं निरूप्येत्यादिन यः खेदो निबद्धः स निरुप(पा)धिपरोपकारप्रवृत्तानां भवदादीनामेतत्स्वभावान्नायं


लब्धस्य प्राप्तस्य राज्यादेः परिपालनाय रक्षणाय वृत्तिर्व्यापारः । एवकारेणानुभव विषयता कथ्यते । क्लिश्नाति । यदि सुखं नास्ति तर्हि सर्वैः कथं राज्यं प्रार्थ्यत इत्यत आह-नातिश्रमापनयनायेति । राज्यमतिदुःखनिरसनं कर्तुं न प्रभवतीति यावत् । दिवारात्रं जनविषयकविनयाधानरक्षणभरणादिराज्यपरिपालनचिन्तायाः विद्यमानत्वादिति भावः । यदि राज्यलाभेऽपीतरजनविलक्षणसुखानुभवो नास्ति तर्हि तल्लाभालाभयोः किं फलमित्यत आह-न च श्रमायेति । श्रमार्थमपि न भवति विषयाद्युत्कंठाया निवृत्तेरिति यावत् । अनुभवैकवेद्यः सुखदुःखानुभव इति दृष्टांतेन विशदयति स्खहस्त धृतदंडमातपत्रमिवेति । वर्षातपस्पर्शजनितदुःखनिरसनार्थं स्वहस्त एव छत्रधारणे सति वहनपरिश्रमो वर्षातपादिस्पर्शरहितसुखं चेति यावत् । नेपथ्य इत्यादि । वैता लिकलक्षणं भावप्रकाशे कथितम् । तथाहि « तत्तत्प्रहरकयोग्यै रागैस्तत्काल- वाचिभिः श्लोकैः । सरभसमेव वितालं गायन्वैतालिको भवति । " इति ।