पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( १७ )
टीकाद्वयसहितम्।


विदधातु पद्मवसतिः शंभुः शिवं यच्छतु श्रीनाथः श्रियमातनोतु तनुतां । सीतापतिर्वाञ्छितम् । हेरम्बः कुरुतामविघ्नमनघं वाग्ब्रह्म विद्योततां व्यासोक्तं तदुदेतु वस्तु भरतो नाट्येऽस्तु नः कौतुकी ।' इति । येषां मते श्लोकतुरीयांशः पदं तेषां मते चतुष्पदेयं नान्दी। ये द्वे कालं विधत्त्त इत्यनेन चन्द्राङ्कत्वं चोक्तम् । यदाहुः-चन्द्रनामाङ्किता कार्या स रसानां यतो निधेः ’ इति । इयं च पत्रावलीसंज्ञा नान्दी | तदुक्तं नाट्यदर्पणे- ' बीजस्य विन्यासो ह्यभिधेयस्य वस्तुनः । श्लेषेण वा समासोक्त्या नान्दी पत्रावलीति सा ॥ ’ इतेि । एतादृश्या नान्द्य अन्ते । सूत्रं प्रयोगानुष्टानं धारयतीति सूत्रधारः स्थापकनामा नटः । प्रविशतीति शेषः । संगीतसर्वस्वे तथोक्तेः- वर्तनीयतया सूत्रं प्रथमं येन सूच्यते । रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते । ’ इति । तदुक्तं दशरूपके- पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । तद्वन्नरः प्रविश्यान्यः सूत्रधारगुणाकृतिः । सूचयेद्वस्तुबीजम्’ इति । नन्वादौ पूर्वरङ्गाङ्गभूता नान्दीत्युक्तम् । अत्र ' पूर्वरङ्गं विधायादौ ’ इत्युच्यत इति कथं पूर्वापरसंगतिः , कथं वा न ग्रन्थविरोध इति चेत् । उच्यते । अत्र पूर्वरङ्गशब्दो गौणः | तथा च तत्कारिकावृत्तिः- पूर्वं रज्यन्तेऽस्मिन्निति पूर्वरङ्गो नाट्यशाला तास्थ्याप्रथमप्रयोग उत्थापनादौ पूर्वरङ्गता ’ इति । तेन द्वाविंशत्यङ्गस्य पूर्वरङ्गस्य द्वादशोत्थानादिनान्द्यन्तान्यङ्गानि पूर्वरङ्गशब्देनोक्तानीत्यर्थः । अत एवादिभरते-'त्र्यस्रं वा चतुरस्र वा चित्रं शुद्ध-


ज्ञापनं सन्नयःपिंडीकरणम् एकमनेकार्थत्वादत्र प्रापणार्थो ज्ञापनार्थं इत्युक्तम् । एवं प्रकृत्युपसर्गावभिधाय समुदायरूपं पदमाह -तस्याभिनीत्येवं व्यवस्थितस्याच्प्रत्ययांतस्याभिनय इति रूपं सिद्धमिति । “ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ” इति पचाद्यचि कृते नटादिप्रयोगस्य पदार्थवाक्यार्थलक्षणकाव्यार्थज्ञापकत्यादुपचारवृत्या कर्तृत्वम् । मुख्यकर्तृत्वं नटादेरेव अत एव केचित् " एरच् ” इत्यच्प्रत्ययं वर्णयन्ति । " तस्याकर्तरि च कारके " इत्यनुवर्णनात् करणेऽपि विधानात् । अन्ये तु प्रयोगमभिमिमयति । व्याप्नोतीति मुख्यं कर्तुत्वमेवाहुः । एवं पदस्वरूपमभिधाय तदर्थंमाह अभिपूर्वंस्तु णीञ् धातुरभिमुख्यार्थनिर्णये ." यस्मात्प्रयोगं नयति तस्मादभिनयः स्मृतः । " इति " अभिशब्द आभिमुख्ये नयशब्दोऽर्थनिश्चये । आभिमुख्येन सन्देहादिदोषत्यागेन प्रेक्षकाणामर्थनिर्णयो येन भवति सोऽभिनयः इति यावत् । अत्र सूत्रधार इति क्रियापदं कथं न प्रयुक्तमित्युक्ते केचिन्नान्दीं पठित्वा पुष्पाञ्जलिं विकीर्य स एव सूत्रधार आहेति वदन्ति । अन्ये तु सूत्रधारादन्य एव वस्तुनः प्रस्तावक इति कथयन्ति । तथा चोक्ते