पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३१० )
[ पञ्चमः
अभिज्ञानशाकुन्तलम् ।


 शार्ङ्गरवः-- कथमिदं नाम । भवन्त एव सुतरां लोकवृतान्तनिष्णाताः।

सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियप्रिया च प्रमदा स्वबन्धुभिः१७॥


भिन्नरूपकम् । क्वचित् ' सावलेपः ’ इति पाठः । निष्णाताः कुशलाः । ' निष्णातः कुशलेऽपि च ' इत्यजयः । ‘ निनदीभ्यां स्नातेः कौशले ' इति णत्वम् । सतीमिति । जनो लोको भर्तृमतीं विद्यमानधवां प्रमदां सतीं पतिव्रतामपि ज्ञातिकुलं पेितृगृहं तत्संश्रयामथ च सगोत्रगणसंश्रयामन्यथा दोष इत्यु ( दोषयु ) क्तत्वेन विशंकते । अनौचित्यपरिहाराय कविना दोषादिपदत्यागेनान्यथापदं दत्तम् । ‘ ज्ञातिः सगोत्रे पितरि कुलं जनपदे गृहे । सजातीयगणो गोत्रः ’ इति च विश्वः । अतः कारणात्प्रियाप्रिया वा । अर्थाद्भर्तुः प्रमदा स्त्रीमात्रम् । अथ च प्रकृष्टो मदस्तारुण्यमदो यस्याः । सैतादृशी स्वबन्धुभिर्वधूबन्धुभिः परिणेतुः समीप इष्यते । ‘प्रियाप्रिया च ’ इति समीचीनः पाठः। ' तदप्रियापि ’ इति पाठे तस्य भर्तुरप्रिया । अपिशब्दात्प्रियापीति व्याख्येयम् । अत्र शकुन्तलायास्त्वत्समीपे स्थितियोग्यतेति विशेषे प्रस्तुते यत्सामान्यवचनं तेनाप्रस्तुतप्रशंसा । हेत्वनुप्रासौ । वृत्तमनन्तरोक्तम् । अत्र स्त्रीसामान्ये वक्तव्ये यत्प्रमदेति विशेषवचनं तेन विशेषपरिवृत्तलक्षणं दूषणामिति चेन्न । शब्दशक्त्युद्भावध्वनेः सत्त्वात्तदभिप्रायेणैव व्याख्यातम् । अनेनार्थविशेषणनामा नाट्यालंकार उपाक्षिप्तः। तल्लक्षणं तु-- ' उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनमनेकधा। उपालम्भस्वरूपेण तस्यादर्थविशेषणम् ॥ ’ इति ।


यदुक्तं तत्कथमिति हेतुप्रश्ने । लोकतंत्रनिष्णाताः लोकसिद्धान्तनिपुणाः । “ तन्त्र कुटुंबकृत्ये स्यात्कारणेऽपि परिच्छदे । शास्त्रे प्रधाने सिद्धान्ते तन्तुवाये गदोत्तमे ॥ " इति विश्वः । सतीमित्यादि । सतीमपि साध्वीमपि । तर्हि साध्व्याः सर्वत्रावस्थानं दुष्टं किमित्यत आह-ज्ञातिकुलैकसंश्रयामिति । अत्राप्यपिशब्दोऽनुषज्यते । ज्ञातीनां जननपोषणकारणभूतपितॄणां कुलं एकः केवलः संश्रयो यस्याः सा तथोक्ता ।


१ तत्कथं किमिदं नाम । ननु इति क्व० पु० पाठः। २ नितरां लोकतंत्र इति क्व० पु• पाठः। ३ तदप्रियाणि इति क्व० पू० पाठः ।