पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३१२ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


शार्ङ्गरवः --

मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ १८ ॥ राजा-विशेषेणाधिक्षिप्तोऽस्मि ।

गौतमी-जादे,मुहुत्तअं मा लज्ज। अवणइस्सं दाव दे ओउण्ठं । तदो तुमं भट्टा अहिजाणिस्सदि । ( इति यथोक्तं करोति ) [ जाते, मुहूर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति ।


प्रायेण बाहुल्येनामी विकारा उक्ता मूर्च्छन्ति वर्धन्ते । ‘ मूर्च्च्छा मोहसमुच्छ्ययोः' इति विश्वः । आदिकारकदीपकसंशयहेत्वर्थान्तरन्यासानुप्रासाः । अनेन तोटकं नामाङ्गमुपाक्षिप्तम् । तल्लक्षणं तु--' संरम्भवचन प्रायं तोटकं त्विह संज्ञितम्’ इति । जाते पुत्रि, मुहूर्तं मा लज्जस्व। अपनेष्यामि तावत्तेऽवगुण्ठनम्। ततस्त्वां भर्तीभिज्ञास्यति परिचेष्यते यथोक्तमवगुण्ठनापनयनम् । इत आरभ्य षष्ठाङ्कसमाप्तिपर्यन्तमवमर्शसंधिः । तल्लक्षणं तु सुधाकरे--'यत्र प्रलोभनक्रोधव्यसनाद्यैर्विमृश्यते ।बीजादौगर्भनिर्भिन्न: सोऽवमर्श इतीर्यते ॥' इति । अत्र शापलक्षणव्यसनेन विमर्शः यथा “ इदमुपनतम् ' इत्यादि प्रकरीनियताप्त्यानुगुण्यादनङ्गकल्पना। अपवादोऽर्थसंफुटौ विद्रवद्रवशक्तयः । द्युतिप्रसङ्गौ छलनं व्यवसायो निरोधनम् । प्ररोचनं विचलनमादानं च त्रयोदश ॥ इति । अत्राङ्गानां लक्षणं व्याख्यानावसरे तत्र तत्र वक्ष्यामः । प्रकरीलक्षणं भावप्रकाशिकायाम्--' शोभायै वैदिकादीनां यथा पुष्पाक्षतादय: । अथर्तुवर्णनादिस्तु प्रसङ्ग प्रकरी भवेत् ॥ इति । यथात्रैव षष्ठेऽङ्के ‘ ततः प्रविशति चूतांकुरम्-' इत्यादिना ‘नेपथ्ये ’ इत्यन्तेन । अनेन तु ‘ फलं तु कल्प्यते यस्याः परार्थायैव केवलम् । अनुबन्धविहीनानां प्रकरी श्रूयते यथा ॥ ' इति लक्षणानुसारेण मातलिवृत्तान्तं प्रकरीवृत्तमाहुस्तन्न । संधिसमाप्तिविषये तस्योद्देशादङ्गानां तदनुगामित्वं नायाति नियताप्तिलक्षणमादिभरते--‘ नियतां तु फलप्राप्तिं यदा भावेन पश्यति । नियतां तु फलप्राप्तिं


मूर्च्छन्ति। अमी विकाराः कृतकार्यद्वेषादयः मूर्च्छन्ति आप्नुवन्ति । वर्तमानव्यपदेशेन त्वय्यनुभवरूपेण दृष्टा इति भावः । अधिक्षिप्तः सोपहासं न्यक्कतः ।

१ अबछैठणं ( अवकुंठनम् ) इति क० पु० पाठः ।