पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३१४ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


शाङ्गरवः--भो राजन्, किमिति जोषमास्यते ।

राजा--भोस्तपोधनाः,चिन्तयन्नपि न खलु स्वीकरणमत्र भवत्याः स्मरामि । तत्कथमिभामाभिव्यक्तसत्वलक्षणां प्रत्यात्मानं क्षोत्रिणमाशंकमानः प्रतिपत्स्ये ।

शकुन्तला-( अपवार्य ) अज़स्स पारिणए एव्व संदेहो कुदो दाणिं मे दूराद्दिरोहिणी आसा । [ आर्यस्य परिणय एव संदेहः । कुत इदानीं से दूराधिरोहिण्याशा]

शाङ्गरव-मा तावत् कृताभिमर्षामनुमन्यमानः सुतां त्वया नाम सुनिर्विमान्यः । मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृत दस्युरिवासि येन ॥ २० ॥


स निगद्यते ? इति । विचारयन्नित्युक्षिप्तैकभ्रूभावादिना । अहो साश्चर्ये।धर्मापेक्षता भर्तुः । ईदृशम् । नाम प्रकाश्ये । प्रकटं सुखोपनतं रूपंदृष्ट्वा कौऽन्यो विचारयति । जोषं तूष्णीम् | अभिव्यक्तसस्वलक्षणां प्रकटगर्भचिह्नम् । क्षेत्रं पत्नी यस्यासौ क्षेत्री तं क्षेत्रिणम् ।‘ क्षेत्रं पत्नीशरीरयोः ' इत्यमरः । एतादृशमात्मानं शङ्कमानः । यत इयं गर्भिणीं मया चेदधुना प्रतिगृह्येत तत्तदाहं क्षेत्री स्यां न तु बीजी । अत एतज्जातापत्यं नौरसमपि तु क्षेत्रजम् । तच्चौरासाध्दीनमिति शङ्का अथ चान्येनोढाया परिग्रहे मत्क्षेत्रत्वमेव स्यान्न तु धर्मपत्नीत्वमिति शङ्का । क्षेत्रियम्’ इति पाठे परदारासक्तम् । क्षेत्रियं क्षेत्रजतृणे परदाररतेऽपि च' इति विश्वः ।कथमिमां प्रतिपत्स्येऽङ्रगिकरिष्यामि । अपवार्येति ? ‘ रहस्य कथ्यतेऽन्यस्य परावृत्यापवारितम् । आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्याशा । दूरमत्यर्थं तत्र गत्वा महिषपदं प्राप्स्यामीत्याद्यधिरोढुं

शीलं यस्याः सा । मा तावदिति श्लोकेन संबध्यते । कृतेति ।

जोषं तूष्णीम्।' तूष्णीं जोषं भावे नूनम्” इत्यव्ययेषु हलायुधः । क्षेत्रिणं कलत्रवन्तम् ।आशा जातेति शेषः। मा तावदित्यादि। तवत्साकल्ये। परिग्रहपरिग्रहरूपशकुन्तलाविषयमकस्माद्भवदुक्तवृत्तादिकं

वृत्तादिकं सर्वमित्यर्थः । माङ् निषेधे । कृतेति । सुतां सदसद्यवहाराभ्यां

१ किमिदं इति के० पु० पाठः । २ ( सविषादं आत्मगतम् ) इति ङ० पु० पाठः । ।