पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३२१ )
टीकाद्वयसहितम्।


शकुन्तल-( सरोषम् ) अणज्ज, अत्तणो हिअआणुमाणेण

तिरिक्तासु । वञ्चकवागादिव्यवहाररहितास्वपीति भावः । तास्वप्यशिक्षितपटुत्वमनुपदिष्टकौशलम् । अर्थाद्वंचने सम्यग्दृश्यते । तेनैतिह्यभ्रान्तिज्ञाननिरासः । याः प्रतिबोधवत्यो वागादिव्यवहारकुशलास्ताः किमु वक्तव्याः । तासामनुपदिष्टवञ्चकत्वकौशलं किमु वक्तव्यमित्यर्थः । खलु ह्यर्थे । परभृता इति साभिप्रायम् । कोकिलाः । ’ वनप्रियः परभृतः इत्यमरः । अन्तरिक्षगमनादाकाशगमनादुड्डयनात्प्राक्स्वं स्वीयमपत्यजातमर्भकसमूहम् । ‘ जातं जात्यौघजन्मसु इति विश्वः। अन्यैर्द्विजैः पक्षिभिः प्रसिद्ध्या काकैः परितः सर्वप्रकारेण पोषयन्ति । अत्र शकुन्तलालक्षणे विशेषे प्रस्तुते स्त्रीसामान्यस्योक्तत्वादप्रस्तुतप्रशंसा । किमुतेत्यनेन व्यतिरेकः । अर्थान्तरन्यासोऽपि । तयाः त्यः इति मनामन्यैरािति छेकवृत्यनुप्रासाः । अनेन हेत्ववधारणनामकं संध्यन्तराङ्गमुपक्षिप्तम् । तल्लक्षणं तु रसार्णवसुधाकरें -- निश्चयौ हेतुनार्थस्य मतं हेत्ववधारणम् इति । अत्र परभृतादिदृष्टान्तेन त्रींल्वेन हेतुना मृषाभाषणलक्षणस्यार्थस्य निश्चयाद्धेत्ववधारणम् । अनार्य, आत्मनो ह्यनुमानेन पश्यासि जा-


स्त्रीणां कामिनीनां न तु शकुन्तलाया एकस्या एव भवति । अशिक्षितपटुत्वम् नासंवत्सरवासिने ब्रूयात् ” इति न्यायेन यस्य कस्यचित्तविद्यानिपुणजनस्य सहवासशुश्रूषादिभिरुपदेशराहित्येन पटुत्वं गूढवंचनाकरणप्रकारचातुर्यस्य अमानुषीषु मनुष्यजातिव्यतिरिक्तेषु तिर्यग्जातिष्विति यावत् । वहुवचनेन देयादेकत्र दृष्टमिति संभावनया सर्वत्र नारोप्यते किंतु बहुस्थलेष्विति भावः । संदृश्यते सम्यक् स्फुटं समस्तलोकसंमत्या विभाव्यते । वर्तमानव्यपदेशेन पुराणादिप्रसिद्धिर्न भवति किंत्वद्यापि दृश्यत इति भावः । याः स्त्रियो बोधवत्यः । ‘‘ ज्ञानं विशेषो गदितो नराणाम् ” इति न्यायेन ताः प्रत्यशिक्षितकैतवपाटी यस्य इत्यत्र किमाश्चर्यमित्यर्थः । अप्रसिद्धं प्रसिद्धेन बोधनीयमिति न्यायादुक्तार्थं दृष्टान्तेन विशदयति । परभृताः कोकिलाः खं स्वकीयम् अपत्यजातं पुत्रसमूहम् । अन्यैर्द्विजैरभ्यजातीयैः पक्षिभिर्वायसैरित्यर्थः । पोषयन्ति वर्धयन्ते । खलु प्रसिद्धौ । अनेन सर्वलोक उक्तः । अत्र विच्छेदारकबीजानुगुणं काव्यार्थोऽपि द्योत्यते । तथाहि--अंतरिक्षगननात् प्रादुश्यन्तस्य मातलिना सह स्वर्गगमनापूर्वं स्वमपत्यजातं स्वकीयं पुत्रम् । अन्यैर्द्विजैर्मारीच्यादिभिः पोषयन्तीति प्रकृतार्थो न परित्यज्यते । अत्र हेत्ववधारणं नाम सन्ध्यंगमुक्तम् । उक्तं च – " निश्चयो हेतुनार्थस्य मतं हेत्ववधारणम् " इति । अत्र परभृतनिदर्शनोपबृंहितेन स्त्रीत्वहेतुना मृषाभाषणलक्षणस्यार्थस्य निश्चयाद्धेत्ववधारणं भवति । अणज्जेति । अनार्येति स्वप्र २१