पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३२२ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।

पे[१]क्खसि। को दाणिं अण्णो धम्मकंचुअप्पवेसिणो तिणच्छण्णकूवीववमस्स तव अणुकिदिं पडि[२]वदिस्सदि। [अनार्य, अत्मनो हृदयानुमानेन पश्यसि । क इदानीमन्यो धर्मकंचुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ]
 राजा-(आत्मगतम् ) संदिग्धबुद्धिं सां कुर्वन्नकैतव इवास्याः कोपो ल[३]क्ष्यते । तथ ह्यनया

मय्येव विस्मरणदारुणचित्तवृत्तौ
 वृत्तं रहः प्रणयमप्रतिपद्यमाने ।
भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या
 भीग्नं शरासनमिवातिरुषा स्मरस्य ॥ २३ ॥


नासि। यथा तव हृदयं वञ्चनापरं तथान्यहृदयान्यपि जानासीत्यर्थः । क इदानीमन्यो धर्मकंचुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते । कोऽन्य इति संबन्धः । मयीति । अतिरुषाधिकक्रोधयााधकक्रोधेन वात एवातिलोहिताक्ष्यात्यारक्तनयनया । विगतं स्मरणं यस्य तदत एव दारुणं याच्चित्तं तेन वृत्तिर्वर्तनं यस्य तस्मिन्नत एव रह एकान्ते वृत्तं संपन्नं प्रणयं स्नेहमप्रतिपद्यमानेऽजानाने । मय्येवेत्येवकारेण कोपस्य तात्त्विकत्वं ध्वनितम् । कुटिलयोर्वक्रयोर्भ्रुवोर्मेदाद्भ्रूभङ्गात्स्मरस्य शरासनं कंदर्पस्य धनुर्भग्नमिवेत्युत्प्रेक्षा । अनया च तथास्याः कोपो यथोपायशतै-


चोजनमात्रपरतया परदुःखकरणशीलेति संरंभसंवधनम् । यस्तु कुटिलाशयः स स्वभिन्नमपि समस्तजनं कुटिदमेव पश्यतीत्यर्थः । इदानीं सांप्रतं स्वप्रयोजने निवृत्ते सतीत्यर्थः । धर्मकंचुकप्रवेशिन इत्यनेन लोकविश्वासार्थं परस्त्रीपरिग्रहविमुखताभिनयः क्रियते अन्तरधर्मो नास्तीति भावः । तृणच्छन्नकूपोपमस्येनेन विश्वस्तजनघातार्थं प्रच्छन्नदुःशीलत्वं सूच्यते । संदिग्धबुद्धिमित्यादि । अकैतव इव अकृत्रिम इव । मयीति । विस्मरणदारुणचित्तवृत्ता विस्मरणेन कृतकार्यस्य संस्कारपर्यन्तं स्मरणराहित्येन दारुणा परस्त्रीस्पर्शदोषवुध्धा संग्रहणरूपदयाकरणचैमुख्येन कूरा चित्तवृत्तिर्यस्य स स्थोक्तः तस्मिन् । अनेन यद्यपि मम संग्रहेच्छा विद्यते । तथापि चित्ते तु तद्विषये स्वारसिकवृत्तिर्नं भवतीति व्यज्यते । रहोवृत्तं रहःसंजातं तनयं प्रेमविषयमप्रतिपद्यमाने


  1. सष्व ( सर्वं ) इत्यधिकं क्क० पु० ।
  2. पविस्सदि ( प्रविशति) इति क्क० पु० पाठः ।
  3. उपलक्ष्यते इति क्क० पु० पाठः ।