पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३२६ )
[ पञ्चमः
अभिज्ञानशाकुन्तलम् ।

 शार्ङ्गरवः-विनिपातः ।

 राजा-विनिपातः पौरवैः प्रार्थ्यते इति न श्रद्धेय[१]म् ।

 शा[२]रद्वतः-शार्ङ्गरव, किमुत्तरेण । अनुष्ठितो [३]गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । ( [४]राजानं प्रति )

तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ २६ ॥

गौतमि, गच्छाग्रतः । ( इति प्रस्थिताः )

 शकुन्तला-कह इमिणा किदवेण विप्पलद्ध ह्मि । तुह्मे वि मे परिच्चअह । (इत्यनुप्रतिष्ठते) [कथमनेन कितवेन विप्रलब्धास्मि । यूयमखि मां प[५]रित्यजथ]


दिन्' इत्यादिना 'न श्रद्धेयम्' इत्यन्तेनाक्षमा नाम नाट्यालंकारो निबद्धः । तल्लक्षणम्- 'अक्षमा सा परिभवः स्वल्पोऽपि न विषह्यते' इति । तदिति । तदित्युपसंहरे । एषा भवतः कान्ता । एनां त्यज वा गृहाण वा । अर्थान्तरन्यासमाह-उपेति । सर्वतोमुखी त्यागे ताडने स्वीकारे दान इत्यादि । तेन त्वं यथेच्छं कुर्विति भावः । कथमनेन कितवेन धूर्तेन विप्रलब्धास्मि । यूयमपि मां त्यजथ । तस्कथमिति


तावत् सर्वे सार्वकालिकपरवंचननैपुण्यमेव जीवनोपायविद्येति यदुक्तं तत्सर्वंभित्यर्थः। अस्माभिरिति बहुवचनेन स्वस्य

नागरिकतया प्ररोक्तिवैचित्र्याभिज्ञनानैपुण्यं सूच्यते । वयं तादृशा एव भवाम् इति भावः । इमामनागरिकां तापसीं अतिसंधाय स्वप्रयोजनार्थंग्रतार्य । इमामित्यगेन शकुन्तलाव्यतिरक्तस्थलेऽन्यत्र यत्किंचित्प्रयोजनवशाद्राज्ञो मम परातिसंधानं संभावयन्तु प्रकृते तदभावात् प्रतारणया किं प्रयोजनमिति यावत् । विनिपातः घर्मप्रजार्थे स्वोकृतसहधर्मचारिणीपरित्यागेन प्रत्यवायः गुरुनिदेशः काश्चपाज्ञा । तदित्वादि । कान्ता । सहधर्मचारिणी । दारेषु कलत्रेषु सर्वतोमुखी गुणदोषाभ्यामुपादेयहेयादिनानारूपा प्रभुता स्वातंत्र्यम् उपपन्ना । प्रत्यवायाभावाद्युक्ता हि धर्मशास्र-


परिदेविणींं ( परिदेविनीं ) इत्याधिकं क्क० पु० ।


  1. एतत् इत्यधिकं क्क० पु० ।
  2. शार्ङ्गरवः-भो राजन्, किमुत्तरोत्तरेण इतेि क्क० पु० पाठः ।
  3. गुरुनिदेशः इति क्क० पु० पाठ० ।
  4. ( राजानं प्रति ) इति क्क० पु० नास्ति ।
  5. दाब ( तावत् ) इत्यधिकं क्क० पु० ।