पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३२८ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।

 राजा–भीस्तपस्विन्, किमत्रभवतीं विप्रलभसे ।

कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ २८ ॥

 शार्ङ्गरवः-यदा तु पूर्ववृत्तमन्यसङ्गादिस्मृतो भवांस्तदा[१] कथमधर्मभीरुः ।


हेत्वनुप्रासौ । द्रुतविलम्बितं वृत्तम् । कुमुदनीति । नापराणीत्युभयत्रैव कारार्थः । हि निश्चितं वशिनां जितेन्द्रियाणां वृत्तिर्वर्तनं परस्यान्यस्य परिग्रह आयातं वस्तु कलत्रं च तस्याश्लेषः संपर्कस्तस्मात्सम्यगतिशयेन पराङ्मुखी निवर्तनशीला । परकलत्रपराङ्मुखत्वं नापि तु तत्संपर्कपराङ्मुखत्वम्, तदापि तन्मात्रं नापि तु सम्यगिति । तेन सम्शब्दः परा मुखविशेषणतया योज्यः। 'परिग्रहः परिजने पत्न्याम्' इति विश्वः। अत्र दुष्यन्तशकुन्तलानङ्गीकारे विशेषे प्रस्तुते सामान्यवचनेनाप्रस्नुतप्रशंसा । यूर्वार्धेवैधर्म्येण भालादृष्टान्तालंकारे । अत्र पूर्वमुपमेयं पश्चात्तत्प्रतिविग्बत्वेनोपमानं निबद्धव्यमिति नायं नियमः । 'दृष्टान्तः पुनरेतेषांसर्वेषां प्रतिबिम्बनम्' इति लक्षणात् । उदाहृतं च रुचकेन--'अब्धि-


यदि तस्य भार्या न भवासि चेदसती चोदेति यावत् । तदा उत्पथया स्वकुलकलंकभूतयाऽस्मत्पथगामिन्या त्वया पितुः "पिता रक्षति कौमारे" इति न्यायेन इतः पूर्वे त्वत्पोषणैकपरस्य काश्यपस्य । किमाक्षेपे न किमपि प्रयोजनमस्तीत्यर्थः । तर्हि स एव पतिरिति निश्चितज्ञानवत्यस्यहं तेनैव तिरस्कृता चेत् किं विधेयमित्याशंक्याह-अधत्विति । अथानंतरम् । तु प्रकारान्तरमस्ति । आत्मनः स्वस्य वृत्तं चरितं शुचि युद्धम् । अव्यभिचरितमिति यावत् । "शुचिः शुद्धेऽनुपहते शृंगाराषाढयोरपि" इति विश्वः । वेत्सि भ्रमराहित्येन जानसि । दास्यमपि दासीकर्मापि क्षमं युक्तम् । येनकेनापि प्रकारेण साध्या पतिकुल एव स्थातव्यं कालान्तरे क्रमण भर्तागीकरिष्यति भावः । कुमुदानीयदि । शशांको निशाकरः कुमुदान्येव एकसरःस्थितान्यपि स्वास्तमयोदयाभ्यां संकोचविकासवन्ति कुमुदान्येव बोधयति । सूर्यास्तमयप्राप्तिधिया न तु पंकजानि । सविता सूर्यः चंद्रे अस्तंगते पंकजान्येव कुमुदानां पंकजानामेकत्रावस्थानेऽपि पंकजान्येव बोधयति । वर्तमानव्यपदेशेन सर्वलोकप्रसिद्भिरुक्ता । वशिनां जितेंद्रियाणां न तु ममैकस्यैव करपरिग्रहसंश्लेषपराङ्मुखी अन्यकलत्रसंगमविभुखी । हिरवधारणे । पूर्ववृत्तं पूर्वकृतचरित्रम् । अन्यासंगात् पुनः कलत्रान्तरसंगममधिगम्य । अत्र परिग्रहपरिग्रहविषये ।


  1. तत् इतेि क्क० पु० पाठः ।