पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
(३२९)
टीकाद्वयसहितम्।

 राजा–(पुरोहितं प्रति) भवन्तमेवात्र गुरुलाघवं पृच्छामि ।

मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याही परस्त्रीस्पर्शपांसुलः ॥ २९ ॥

 पुरोहितः-(विचार्य) यदि तावदेवं क्रियताम् ।

 राजा-अनुशास्तु मां भवान् ।


र्लंवित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्नपीवरवपुर्जानातेि मन्थाचलः । देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ॥' इति । अत्र ज्ञानाख्यधर्मेणौपम्यं किं तु बिम्बभावेनैवोते (?) कश्चित्वालंकारिकः पूर्वार्धे वैधर्म्येण मालाप्रस्तुतप्रशंसोत्तरार्धे तत्समर्थनरुपोऽर्थान्तरन्यास इत्यवदत्तत्र । यतोऽयमप्रस्तुते विशेषः सामान्यं वोधयेदिति वक्तव्यं तत्र (?) । प्रस्तुतस्य विशेषरूपत्वादेव । नापि तयोः कार्यकारणभावः । नाप्यत्र सारूप्यं तादृशधर्माभावात्कुमुदानीति पङ्कजानीत नपुंसकोपादानञ्च । तेन पूर्वोक्तमेव साधु । ननु तवापि कथं बिम्बप्रतेिबिम्बभाव इति चेदुच्यते । वशिनः शशाङ्कसवितारौ प्रतिबिम्बत्वेनोपात्तौ । परपरिग्रहस्य कुमुदपङ्कजे (?) पराङ्मुखस्य वैधर्म्येण विकास इतेि सर्वं समञ्जसम् । अङ्काङ्केति न्येवन्येति परपरीति छेकवृत्त्यनुप्रासौ । एतदभिप्रायेणैव शार्ङ्गरववचनम् 'यदा तु --' इतेि । अन्यस्यालौकिकस्य शापस्य सङ्गः सक्तिः संबन्धस्तस्मात् । अथ चन्यस्या वसुमत्या देव्याः प्रसङ्गात् । अथवान्यस्या लोकोत्तराया राजलक्ष्म्याः सङ्गादित्यादि योज्यम् । विस्मृतं विद्यते यस्य स विस्मृता । अर्शआदित्वादच् । विस्मरणयुक्त इत्यर्थः । अनेनोत्प्रासनामा नाट्यालंकार उपक्षिप्तः । तल्लक्षणं तु- 'उप्रासनं रूपहासो योऽसाधौ साधुमानिनि' इति । मूढ इति । आहो पक्षान्तरे । यांमुळेः पुंश्वलः' इति विश्वः । 'राजा--भोः सत्यवादिन् इत्यादिनैतदन्तेन विरोधनामकमङ्गमुपक्षिप्तम् । 'उत्तरोत्तरवाक्यं तु विरोध इति संज्ञितः' इति । अनुशास्तु शिक्षयतु । शुद्धान्तन्मतःपुरम् ।


मूढ इत्यादि । अहं चा सूडः कृतकार्यंस्मरणाभावेनाज्ञः । एषा वा मिथ्या असत्यं स्वप्रयोजनार्थं वदेत् । इति उक्तविकल्पद्वयप्रकारेण संशये संभाविते सति परीस्त्रीस्पर्शपांसुलः