पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
(३३०)
[ पञ्चमः
अभिज्ञानशाकुन्तलम् ।

पुरोहितः-अत्रभवती तावदा प्रसवादस्म[१]द्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् । त्वं साधुभि[२]रुद्दिष्टः प्रथममेव चक्रवर्तिनं । पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्य[३]ति आभिनन्द्य शुद्धान्तयेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः समी[४]पनयनमवस्थितमेव ।

 राजा--यथा गुरुभ्यो रोचते ।

 पुरोहितः--वत्से, अनुगच्छ माम्।

 शकुन्तला-भअवदि वमुहे, देहि मे विवरं । (इति रुदती आस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च) [भवतेि वसुधे; देहि में विवरम्]

(राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयाते)
(नेपथ्ये)

 मह[५]दाश्चर्यम्।

 राजा--(आकर्ण्य) किं नु खलु स्यात् ।

(प्रविश्य)

 पुरोहितः-(सविस्मयम्) देव, अद्भुतं खलु संवृत्तम् ।

 राजा--किमिव ।

 पुरोहितः-देव, परावृत्तेषु कण्वशिष्येषु

सा निन्दन्ती स्वानि भाग्यानि बाला
बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।


वसुधे, देहि मे विवरं छिद्रम् । प्रवेशयेत्यार्थम् । शापव्यवाहितस्मृतिरिति कविवचनमनुवादेऽन्तर्भूतम् । सा निन्दन्तीति । यतो वालत एव वाहूत्क्षेपं यथा स्यात्तथा क्रन्दितुं प्रवृत्तेति बालास्वभावोक्तिः इवं ज्ञातमेवेति


कामवशात् परकलत्रसंगमपापीयन् । भगवति वसुधे देहि मे विवरं सीताया इव विवरं देहाति यावत् । सोत । बाहूत्क्षेपं बाहू उत्क्षिप्य । अप्सरतीर्थमिति तस्य तीर्थस्य नाम


  1. मम इति क्क० पु० पाठः ।
  2. आदिष्टपूर्व एव इति क्क० पु० पाठः।
  3. भवेततः प्रतिनन्द्य इति क्क० पु० पाठः।
  4. गमनमुपस्थितं इति क्क० पु० पाठः ।
  5. आश्चर्यमाश्चर्यम् इति क्क० पु० पाठः।