पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३३२ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


 राजा--

 
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवतु दूयमानं प्रत्याययतीव मे हृदयम् ॥ ३१ ॥

( इति निष्क्रान्ताः सर्वे )

इति पञ्चमोऽङ्कः


काममिति । काममतिशयेन प्रत्यादिष्टां निराकृतां मुनेस्तनयां परिग्रहं पत्नीं न स्मरामि । तु पुनः । बलवदधिकं दूयमानं पीड्यमानं मे मम हृदयं प्रत्याययति विश्वासमुत्पादयतीवेत्युत्प्रेक्षा । अनया स्थायिन्या रतेरनुसंधानं ध्वनितम् । पीडायाः कारणस्य स्मरणस्याभावेऽपि पीडेति विभावनालंकारः । अनुमानालंकारोऽपि । तत्प्रत्यायनस्य साध्यत्वं हृदयपीडाहेतुत्वादनुमानम् । तदुक्तम् -- यत्साध्यसाधनयोर्वचः ? इति तल्लक्षणात् । अनेन प्रसङ्गनामाङ्गमुपक्षिप्तम् तल्लक्षणम्-’ प्रसङ्गश्वैव विज्ञेयो गुरूणां कीर्तनं हि यत् ।' इति । अत्र मुनेस्तनयेते गुरुकीर्तनम् । इति श्रीमदभिज्ञानशाकुंतलटीकायामर्थद्योतनिकयां पञ्चमोऽङ्कः समाप्तः ।।


उक्तः । काममित्यादि । प्रत्यादिष्टां निराकृतां मुनेस्तनयां शकुन्तलां परिग्रहं कलत्रत्वेन स्वीकृतां कामं यद्यपि न स्मरामि तथापि मे हृदयं तु बलवद्दूयमानं निराकरणे नाधिकतरं क्लिश्यमानं प्रत्याययतीव विश्वासं जनयतीव । तत्परिग्रहवृत्तान्तस्मरणाभावेऽपि वासनाबलात् तत्परित्यागनिमित्तहृदयसंतापबाहुल्येनानुमीयत इति भावः । अत्र शकुन्तलादेशेन वस्तुविच्छेदे सति दुष्यन्तस्य चित्तक्षोभ एव पुनः प्राप्तिं प्रतिर्विदुरित्यवगंतव्यम् । इतिहासस्येव साक्षाद्विस्मरणं नायिकापकर्षहेतुतया रसपरिपोषणं न भवतीति शापरूपविस्मरणं कविना कल्पितम् ।

इति श्रीरमणवेंकटाचलेश्वरपादाराविंदसमाराधकवैखानसकुलतिलककौशिकगोत्र-

श्रीवेंकटभट्टइतिगोत्रमागतभट्टविरुदश्रीतिरुमलाचार्यस्य पुत्रेण ध्वनिप्रस्था-

नपरमाचार्याष्टभाषाचक्रवर्तिश्रीनिवासाचर्येण विरचितायां शकुन्त-

लव्याख्यायां पंचमोऽङ्कः ।


१ ( आत्मगतम् ) इति क० पु० पाठः ।