पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३३५ )
टीकाद्वयसहितम्।


श्यालः--( विहस्य) विसुद्धो दाणिं आजीवो । [ विशुद्ध

इदानीमजीवः ]

पुरुषः---

शहजे किल जे विणिन्दिए ण हु दे मम विवज्जणीअए ।
पशुमालणकम्मदालुणे अणुकम्पामिदुए व्व शोत्तिए ॥ १ ।।

[ सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् । पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रेत्रियः ॥ ]

श्यालः--तदो तदो ।[ ततस्ततः ।]
पुरुषः-एक्कश्शिं दिअशी खण्डशो लोहिअमच्छे मए कप्पिदे

जाव। तश्श उदलब्भन्तले एदं लदणभाशुलं अङ्गुलीअअं देक्खिअ पच्छा अहके शे विक्कआअ दंशअन्ते गहिदे भावमिश्शेहिं मालेह वा मुञ्चेह वा। अअं शे आअमवुत्तन्ते । [ एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितो यावत् । तस्योदराभ्यन्तर


मर्थेऽहके हगे ’ इत्युक्तेः। जालोद्गालादिभिर्मत्स्यबंधनोपायैः कुटुम्बभरणं करोमि । जालमानायः । “ उज्झलो वडिअसाभअ’ इति देशीकोशे । विशुद्ध इदानीमाजीवः | शहजे इति । सहजं किल यद्विनिदितं न खलु तत्कर्म विवर्जनीयम् । धीवरस्य मत्स्याजीवे विशेषे प्रस्तुते सामान्यमुक्तमित्यप्रस्तुतप्रशंसा अनुकम्पा कृपा तया मृदुरेव श्रोत्रियो दारुणं पशुमारणकर्मणि यज्ञादौ विवर्जयति । क्रतुषु हिंसाया विहितत्वात्सहजम् । विनिन्दितमिति बौद्धादिभिः । एकस्मिन्दिवसे खण्डशो रोहितमत्स्यः । रोहित इति मत्स्यसंज्ञा । मया कप्पिदे कल्पितः खण्दितः ।


१ दाव दे ( तावत्ते ) इति क० पु० पाठः । २ भट्ट सुणोद

( भर्तः शृणोतु ) इत्यधिकं ६० पु० । ३ अह

( अथ ), इत्याधिकं क० पु० ।