पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३३६ )
[ षष्ठः
अभिज्ञानशाकुन्तलम् ।


इदं रत्नभासुरमङ्गुलीयं दृष्ट्वा पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः। मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः]

श्यालः --जाणुअ, वस्सगगन्धी गोहादी मच्छबन्धो एव्व

णिस्संसअं । अङ्गुलीअअदंसणं शे विमरिसिदव्वं। राअउलं एव्व गच्छामो । [ जानुक, विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः |

रक्षिणौ- तह । गच्छ अले गण्डभेदअ । [ तथा । गच्छ

अरे गण्डभेदक ]

( सर्वे परिक्रामन्ति )

श्यालः- सूअअ, इमं गोपुरदुआरे अप्पमत्ता पडिबालह

जाव इमं अंगुलीअअं जहागमनं भट्टिणो णिवेदिअ तदो सासणं पडिच्छिअ णिक्कमामि । [सूचक, इमं गोपुरद्वारेऽप्रमत्तो प्रतिपालयतं यावदिदमंगुलीयकं यथागमनं भर्तुर्निवेद्य ततः शासनं प्रतीक्ष्य निष्क्रामामि ]


कल्पनं कर्तनं क्लृप्तौ ’ इति विश्वः । यावत् । तस्योदराभ्यन्तर इदं रत्नभासुरमंगुलीयं दृष्ट्वा पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः । मारयत वा मुञ्चत वा । अयमस्यांगुलीयस्यागमः प्राप्तिस्तद्वृत्तान्तः । विक्रयायेति ‘चतुर्थ्याः षष्ठी’ इति षष्ठ्या नियमेन प्राप्तौ ‘तादर्थ्ये’ इति विकल्पेन चतुर्थ्येकवचनम् । जानुकेति द्वितीयपुरुषनाम । विस्रगन्धि । विस्रं स्यादामगन्धि यत् ' इत्यमरः । गोधादी गोधाशनो मत्स्यवन्धो धीवर एव निःसंशयम् । अंगुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः तह तथा | गच्छ । अग्रे गच्छेत्यर्थः। अरे गण्डभेदक चौर । सूचक, इमं गोपुरद्वारे “ पुरद्वारं तु गोपुरम्' इत्यमरः । तत्राप्रमत्तौ सावधानौ प्रतिपालयतं रक्षतं यावदिदमंगुलीयकं यथागमनम् । भर्तुरिति चतुर्थ्यर्थे षष्ठी । तेन भर्त्रे निवेद्य ततः शासनमाज्ञां प्रतीक्ष्य


१ घोलाकिदि ( घोराछुतिः ) इति क० पु० पाठः । २ गंथिमअअ ( ग्रंथिभेदक )

इति क० पू० पाठः । ३ से ( अस्य ) इत्यविकं क० पु० । ४ भनें

इति क० पु० पाठः ।