पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३३६ )
टीकाद्वयसहितम्।


उभौ–पविशदु आवुत्ते शामिपशादश्श । [ प्रविशत्वावुत्तः

स्वामिप्रसादाय ]

( इति निष्क्रान्तः श्यालः )

 प्रथमः--जाणुअ, चिलाअदि क्खु आवुत्ते । [जानुक, चिरायते खल्वावुत्तः ]

 द्वितीयः--णं अवशलोवशप्पणीआ लाआणो । [ नन्ववसगेपसर्पणीया राजानः ]

 प्रथमः-जाणुअ, फुल्लन्ति मे हत्था इमश्श बहश्श शुमणा पिणद्धुं । ( इति पुरुषं निर्दिशति ) [ जानुक, प्रस्फुरतो मम हस्तावस्य वधार्थं सुमनसः पिनद्धुम् ]

 पुरुषः--ण अलुहदि भावे अकालणमलणं भाविदुं । [ नार्हति भावोऽकारमारणं भावयितुम् ]

 द्वितीयः—( विलोक्य ) एशे अह्माणं शामी पत्तहत्थे लाअशाशणं पडिच्छिअ इदोमुहे देक्खीअदि । गिद्धवली भविश्शशि


गृहीत्वा निष्क्रामामि | प्रविशत्वावुत्तः स्वामिप्रसादाय | जानुक, चिरायते खल्वावुत्तः। नन्ववसरोपसर्पणीया राजनः। फुल्लन्ति प्रस्फुरन्ति मम हस्ता अस्य वहस्स वधार्थं सुमनसः कुसुमानि पिनद्धं परिधापयितुम् । आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ' इत्यमरः । ‘चतुर्याः षष्ठी तादर्थ्ये च’ इत्यनुवर्तमाने ‘वधाडाइश्व वा ? इति सूत्रेण चतुर्थ्यैकवचनस्य षष्ठ्येकवचनम् । तेन बहस्सेति सिद्धम् । ‘वज्झस्स , वध्यस्येत्यसांप्रदायिकः पाठः । नार्हति भावोऽकारणमारणं भावयितुं प्रापयितुम्। ततः प्रविशति’ इत्याद्येतदन्तेन विद्रवनामकमङ्गमुपक्षिप्तम् । तल्लक्षणं तु-वधबन्धादिकोपस्तु विद्रवः परिकीर्तितः' इति । एषोऽस्माकं स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखं ( खो ) दृश्यते । गृध्रवलिर्भविष्यसि


१ चिरायति इति क्व० पु० पाठः ।२ फुलंति ( स्फुरंतौ ) इति क० पु० पाठः।।

३ बज्झश ( वध्यस्थ ) इति क पु° पाठः । ४ अणं ( अस्माकं ) इति

क० पु० पाठः । ५ गहिअ ( गृहीत्वा) इति क्वं० पु० पाठः । ६ इदौमुहं

दैक्खवि। तदो तुम (इतोमुखं पश्यति ततस्त्वं ) इति क० पु० पाठः।।

२२