पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४३ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 द्वितीया-सहि, अवलम्व मं जाव अग्गपादट्ठिआ भविअ चूदकालिअं गेण्हिअ कामदेवच्चणं करोमि । [ सखि, अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि |

 प्रथमा-जइ मम वि क्खु अद्धं अच्चणफलस्स । यदि ममापि खल्वर्धमर्चनफलस्य ]

 द्वितीया-अकहिदे वि एदं संपज्जइ जदो एक्कं एव्व णो जीविदं दुधाट्ठिदं सरीरं । ( सखीमवलम्ब्य स्थिता चूतांङ्कुरं गृह्वाति ) अए अप्पडिबुद्धो वि चूदप्पसवो एत्थ बन्धणभङ्गसुरभी होदि । ( इति कपोतहस्तकं कृत्वा ) [ अकथितेऽप्येतत्संपद्यते यत एकमेव नौ जीवितं द्विधास्थितं शरीरम् । अये, अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति ।


सखि, अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि । यदि ममापि खल्वर्धमर्चनफलस्य । अकथितेऽप्येतत्संपद्यते यत् एकमेव नो जीवितं द्विधास्थितं शरीरम् । अये, अप्रतिबुद्धः कोमलोऽपि चूतप्रसव एत्थ अत्र वसन्तारम्भे । ‘एसो’ इति पाठ एषः । बन्धने वृन्ते भङ्गस्तत्र सुरभिर्भवति । संदाने च तथा वृन्ते मायायां बन्धनं स्मृतम् ' इति रुद्रः। कपोतहस्तकमिति । तल्लक्षणं संगीतरत्नाकरे--‘कपोतोऽसौ करो यत्र श्लिष्टमूलाग्रपार्श्वकौ (?)। प्रणामे


आगत इति भावः । अह्महे इति हर्षे निपातः अप्रतिबुद्धः अविकसितः बन्धनस्य वृंतस्य भंगेन सुरभिः । कपोतं कृत्वेति । कपोतो नाम संयुक्तहस्ताविशेषः यथाह भरतः “उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसंग्रहात् । हस्तः कपोतको नाम कर्म चास्य निबोधत ॥ ” इति । “ एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च संभाषे । इति । प्रसंगात् हस्तभेदाश्च निरूप्यंते “ पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः । अर्धचंद्रो ह्यरालश्च शुकतुण्डस्तथैव च ॥ मुष्टिश्च शिखराख्यश्च कपित्थः कटकामुखः । सूच्यास्यः पद्मकेशश्च सर्वको मृगशीर्षक: लांगूलकोलपद्मश्च चतुरो भ्रमरस्तथा । हंसास्यो हंसपक्षश्च संदंशो मुकुलस्तथा । ऊर्णनाभस्ताम्रचूडश्चतुर्विंशदिमे कराः | असं-


१ कामदेवश्रणस्य चूअंकुराबच7 ( कामदेवार्चनाय चूतांकुरापययं ) इति क्र०पू० पाठः । २ अफाणेिदे वि एवं ( अफाणेितेऽप्येवं ) इति क० पुo पाठः । ३ अह्मदे ( अहो ) इति क० पु० पाठः। ४ कपोतं वा इति ई० पू० पाठः ।