पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३४५ )
टीकाद्वयसहितम्।


तुमं सि मए चूदङ्कुर दिण्णो कामस्स गहीदधणुअस्स ।
पहिअजणजुवइलक्खो पञ्चब्भहिओ सरो होहि ॥ ३ ॥
[ त्वमसि मया चूताङ्कुर दत्तः कमाय गृहीतधनुषे ।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भत्र ॥

( इति चूतांकुरं क्षिपति )


गुरुसंभाषे’ इति । तुमं सीति । त्वमसि मया चूतांकुर दत्तः कामाय


युताः संयुताश्च गदतो मे निबोधत ॥ अंजलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा । कटको वर्धमानश्च उत्संगो निषधस्तथा ॥ दोलः पुष्पपुटश्चैव तथा मकर एव च । गजदन्तोsवहित्थश्च वर्धमानस्तथैव च । एते च संयुता हस्ता मया प्रोक्तास्त्रयोदश । वृत्तहस्तांस्ततश्चोर्ध्वं गदतो मे निबोधत ॥ चतुरस्रौ तथोद्वृत्तौ तथा तलमौखौ स्मृतौ । स्वस्तिकी विप्रकीर्णौ चाप्यरालकटकामुखौ ॥ अविद्धवक्त्रौ सूच्यार्स्वा रेचितावर्धरोस्त्रितौ । उत्तानवञ्चितौ चापि पल्लवौ च तथा करौ । नितंवौ चापि विज्ञेयौ केशबद्धौ तथैव । श्लोकार्धं न लभ्यते ) पक्षवंचितकौ चैव पक्षप्रद्योतकौ तथा ॥ ज्ञेयौ गरुडपक्षौ च दंडपक्षौ तथैव च ।(श्लोकार्धं न लभ्यते ) उरोमंडलितौ चैव ह्युरःपार्श्वार्धमंडलौ ॥ मुष्टिकत्वस्तिकौ चापि ( श्लोकार्धं न लभ्यते ) ललितौ बलितौ तथा । सप्तषष्टिकरा ह्येते नानतोऽभिहिता मया । “ एतेषां स्वरूपमुच्यते । अत्र पताकस्य सर्वहस्तप्रकृतित्वात् त्रिपताकादीनां पताकविकारत्वादादौ पताकस्योपादानम् । पताकस्त्रिपताकश्चेत्यादावेकवचनप्रयोगस्तु बहुष्वर्थेष्वेकैकेत्य विनियोगदर्शनात् । अंजल्वादिषु संयुतहस्तेष्वेकवचननिर्देशस्तु संयुतत्वनियमार्थः। नृत्तहस्तेषु चतुरस्रावित्यादि द्विवचनप्रयोगेण द्वयोरपि प्राधान्यं दृश्यते । नृत्तहस्तानामभिनयस्तेषु कथनं तदंगताख्यापनाय । अत एव सप्तषष्टिकरा इति मिलित्वा संगृह्याह । प्रकरणपाठे मिलित्वा निर्देशादगागिभावो ज्ञेयः । मयाभिहित इत्यनेन मतान्तराण्यपि विद्यन्त इति स्वशास्त्रस्याप्ततमत्वप्रदर्शनार्थं तत्र कर्तृबाहुल्यं सूच्यते । तथाहि--संगीतार्थे पुरा ब्रह्मा भरतः काश्यपः शिवः । मतंगो याष्टिको दुर्गा शक्तिः शार्दूलकोहलौ ॥ विशाखिलो दत्तिलश्च केवलोऽचतरस्तथा । वायुर्विश्वावसू रंभार्जुनौ नारदतुंबरू ॥ आंजनेयो मात्रगुप्तो रावणो नंदिकेश्वरः । स्वस्तिर्गणो देवराजः क्षत्रराजश्च राहलः । रुद्रसेनोऽथ भूपालो भोजो भूवल्लभस्तथा । परमर्दी च सोमेशो जगदेकमहीपतिः ॥ व्याख्यातारो भारतीये लोलटोद्भटशंकुकाः । भट्टोsभिनवगुप्तश्च श्रीमत्कीर्तिधरोऽपरः । अन्येऽपि बहवः पूर्वे चक्रुस्तुंत्राण्यनेकशः॥” मतान्तरे ये हस्ता मिलित्वा सप्ततिः। ते त्रयो हस्ता मदीये मालविकाग्निमित्रव्यायाख्याने द्रष्टव्याः । प्रकृतमनुसरामः तुमेत्यादि । चूतांकुर विरहिजनप्राणहरणब्रह्मास्त्रभूतामोघास्त्ररूपेति यावत् । गृहीतधनुष इत्यनेन यथा युद्धार्थिनां युद्धवीराणां


१ परिकुपित इति ई० पू० पाठः ।