पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६६

पुटमेतत् सुपुष्टितम्
अङ्कः ६]
( ३५३ )
टीकाद्वयसहितम्।

 कंचुकी--अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।

 उभे--जुज्जइ[१] । [युज्यते]

(नेपथ्ये )

 एदु एदु भवं । [ एतु एतु भवान् ]

 कंचुकी--( कर्णं दत्वा ) अये, इत एवाभिवर्तते देवः स्वकर्मानुष्ठीयताम् ।

 उभे--तह । ( इति निष्क्रान्तं ) [ तथा ]
 ( ततः [२]प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च )

 कंचु[३]की –( राजानमवलोक्य ) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एव[४]मुत्सुकोऽपि प्रियदर्शनो देवः । तथा[५]हि ।


अस्मात्कारणात्प्रभवतः समर्थात् । अधिकादित्यर्थः । वैमनस्यादुद्वेगात् ! युज्यते । 'प्रविश्यापटीक्षेपेण' इत्याद्येतदन्तेन द्युतिनामकमङ्गमुपक्षिप्तम् । तल्लक्षणं दशरूपके-– 'तर्जनोद्वेजने द्युतिः' इति । एतु एतु भवान् । तह इति तथेति । प्रतीहारीलक्षणमुक्तं प्राक् । अहो आश्चर्ये । सर्वावस्थास्वित्यर्थान्तरन्यास एवमित्यादेरुत्तरवाक्यार्थस्य समर्थकः । सर्वासु यदा यादृश्यो या उपास्थितास्तासु ताद्रूप्येण रमणीयत्वमित्यर्थः । उत्सुक उत्कण्ठितः । विरह्यपीत्यर्थः । एतदवस्थाया अन्यत्र प्रियदर्शनत्वमपिशब्दद्योत्यम् । अत एवार्थान्तरन्यासे विशेषपदम् । तथाहीत्युभयपरामर्शः । स एव पद्ये वाच्येन पूर्वांशस्य व्यङ्गे ( ङ्ग्ये ) नोत्तरांश


प्रभोः उत्सवः प्रत्याख्यातः निराकृतः अनेन छलनं नाम सन्ध्यंगमुक्तम् । "छलनं चावमाननम्" अवमाननं नाम प्रत्याख्यानम् । अत्रोत्सवप्रत्याख्यानमत्रमाननम् ।


२३
 
  1. जुज्जइ जुज्जइ ( युज्यते युज्यते ) इति क्व० पु० पाठः ।
  2. प्रविष्टः इति क्व०पु० पाठः ।
  3. विदूषकः-एदु एदु भवं ( एतु एतु भवान् ) इत्यधिकं क्व० पु० ।
  4. तथाहि इत्यधिकं क्व० पु० ।
  5. तथाहि इति नास्ति क्व० पु० ।