पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


सुधाकरोक्तेरिंयं विस्तीर्णा प्ररोचना । तल्लक्षणं च दशरूपके - “उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना’ इति। तस्या भेदा उक्ताः सुधाकरे 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । चेतनास्तु कथानायकविसभ्यनटाः स्मृताः ।। अचेतनौ देशकालौ कालो मधुशरन्मुखः ।'इति । कथानाथः कथानायकः। अभिरूपाः पण्डिता मनोज्ञाश्च भूयिष्ठा बहवो यस्यामेतादृशी परिषत्सभा । ‘अभिरूपो बुधे रम्ये’ इति शाश्वतः । अनेन


निर्मुक्ता लक्ष्यमार्गौपशारदाः ॥ सर्वभाषासु निपुणाः प्रस्तावोचितवादिनः । नाट्यनृत्यादिभेदज्ञा विनयानम्रकंधराः।। मध्यस्थाः सावधानाश्च सभ्यास्तु कथिता बुधै: ॥" इति यद् यो यस्यां कलायां समर्थः स तत्राभिज्ञरूप इत्युच्यते तैस्तत्कलानिपुणैर्भूयिष्ठा प्रचुरा । अत्र सभ्यानां सकलकलाभिज्ञत्व-कथनेन सर्वाः कला: नाट्य एव प्रयुज्यं इति ध्वन्यते । तदुक्तम् भरतेन - न तच्छास्त्रं न सा विद्य न तच्छिश्यं न ता: कुला: । नासौ योगे न नत्कर्म नाट्येऽस्मिन्यन्न वीक्ष्यते । इति । अत्राभिरूपपदेन तेषां सारासारविवेचनसामग्री सूच्यने । भूथिष्ठेत्यनेन दुर्मिलसकलकलाभिज्ञानामेकत्र समवायेन स्वस्याघटनाघटकं दैवानुकूल्यं सूच्यते । अभिरूपभूयिष्ठेत्येनेने सकलकलाभिज्ञनानादिंगन्तस्थ-विद्वज्जनानां सम्मेलनेन प्रतिपालमनैरपेक्ष्यादविलम्बेन नाट्यं प्रयोक्तव्यमिति व्यज्यते । स्वविद्याभिज्ञपारैषत्सन्निधाने हि गुणिनां स्वगुणप्रकाशनौत्साहः समुल्लसतीति भावः। अत्रैषाभिरूपभूयिष्ठेत्यनेन प्रकृतनायिका सर्ववयसौन्दर्याद्यतिशयवतीति काव्यार्थसूचनमपि क्रियते । अत्राभिरूपदेन परिषदेन च सभ्यानां सकलशास्त्रपरिज्ञानेन भवितव्यमिति ध्वन्यते । तदुक्तम्-“कारणं नाटकस्यास्य करणे च विचारणे । शक्तिव्युत्पतिसामग्री संपूर्णा यस्य विद्यते ।" इति - केवलशक्तिमतः केवलव्युत्पत्तिमतश्च' तादृशफलकारी कार्यकरणकौशलं न भवतीत्यर्थः "शक्तिः कवित्वबीजं हि प्राक्तनी कापि संस्क्रिया । यया विना न प्रसरेत्काव्यं शिक्षावतामपि ।"शक्तिर्नाम कवित्वस्य प्रथमकारणम् । बीजमिव तरोः पुरुषस्य प्राक्तनजन्मनः कश्चन संस्कारविशेषः । तर्हि व्युत्पत्तिबलात्कवित्वं यत्किञ्चित्कथञ्चित्प्रसरति इत्याशंक्याह् - वुत्पत्तिगौरवबलाद्यदि किंचित्कथंचन । प्रसारितं परं तच्च हास्यमेव न संशयः ।" दण्डिनापि - केवलव्युत्पतिमतः काव्यं प्रत्युक्तम्-‘नाकवित्वमधर्माय मृतये दण्डनाय वा । कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ।" अनेनापि तस्य हास्यत्वमेवाङ्गीकृतम् । तर्हि का वा शक्तिरित्यत आह "प्रतिभां नाम तामेतां कवयः सुमुपासते । पराभ्यां जीवितराखी देव्या वाचस्त्रिधा तनोः ॥" देव्या: प्राणसमां सखीं प्राक्तनजन्मसंस्कारविशेषरूपां तामेव प्रतिभाशक्तिकाव्यस्य सिद्धये समुपासत इत्यर्थः । प्रतिभाखरूपमाह - "स्मृतिर्यतीतविषया मतिरागमिगोचरा । बुद्धिस्तात्कालिको ज्ञेया प्रज्ञा तात्कालिकी मता । प्रह्मा नवनवोन्मेषशालिनी प्रतिभा मता । तदनुप्राणनाज्जेवेद्रचनानिपुणः कविः ॥ सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तत्र विना येन परिस्रवति वाङ्मधुः ॥" कवेर्जीवनत्वेन