पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३६७ )
टीकाद्वयसहितम्।


 सानुमती-जइ अण्णइत्थगदं भवे सच्चं एव्व सोआनं भवे । [ यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।

 विदूषक -भो, इअं णाममुद्दा केण उग्घादेण ततहोदीए हेत्थाब्भासं पाविदा । [ भोः, इयं नाममुद्रा केनोद्धातेन तत्रभवत्या हस्ताभ्यासं प्रापिता]

 सानुमती—( आत्मगतम् ) मम बि कोदूहलेण आआरिदो एसो। [ ममापि कौतूहलेनाकारित एषः ]

 राजा--श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया सवाष्पमह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति ।

 विदूषक -तदो तदो। [ ततस्ततः ॥

  राजा-पश्चादिमां मुद्रां तदंगुलौ निवेशयता मया प्रत्यभिहता-


द्वावपि सहोपमा किं न स्यादिति चेदुच्यते । प्रकृतमुपमेयमप्रकृतमुपमा नमिति साधरणी स्थितिः । यत्रोभयमपि प्रकृतमिवशब्दप्रयोगश्च तत्र सहोपमेति रहस्यम् । यथा आदाय शेषामित्र भर्तुराज्ञाम् इत्यादावुभयस्यापि प्रकृतत्वेन विधेयत्वात् । अन्यत्र त्वतिशायकत्वे नाप्रकृतस्योपमानस्यानुवाद्यत्वात् । इयं च साधारणधर्मस्य वाच्यव एव संभवतीत्यपि ज्ञेयम् । पुष्पिताग्रा वृत्तम् । यद्यन्यहस्तगतं भवे त्सत्यं शोचनीयं भवेत् । इयं नाममुद्रा केनोद्घातेन केनोपक्रमेण । उद्धातः कथ्यते धीरैः स्खलिते समुपक्रमे ' इति धरणिः । तत्र- भवत्याः शकुंतलाया हस्ताभ्यासं हतंनैकट्यं प्रापिता । त्वया तस्यै किमर्थं दत्तेति वचनेऽनौचित्यप्रसङ्गदेताड्गुक्तिः । ममापि कौतू- हलेनाकारित एषः । आकारित इवेति गम्योत्प्रेक्षा । ममाप्येतच्छ्र- वणे कौतूहलमासीत् । तदेवानेन पृष्टामिति भावः । कियाच्चरेण कियता विलम्बेन । प्रतिपत्तिम् । वार्तामिति यावत् । “ प्रातिपत्तिः प्रवृत्तौ-


प्रतिदिनं शरीरकार्श्यैनोत्तरोत्तरस्थूलप्रत्यंगुलीसमर्पयामिति भावः । उद्धातेन उद्योगेने-


१ हृत्थसंसर्ग ( हस्तसंसर्ग ) इति व० पु० पाठः । २ तदा इत्यधिकं इ० पु• । ३ नाममुद्रां इति झ० पु० पाठः ।