पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३८२ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 राजा--वयस्य, किमिदमनुष्ठितं पैरोभाग्यम् ।

  दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
  स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥ २१ ॥

( इति बाष्पं विहरतेि )

 सानुमती-- पुव्वावरविरोही अपुव्वो एसो विरहमग्गो । [ पूर्वापरविरोध्यपूर्व एष विरहमार्गः ]


ममाप्यधुना जातमित्यर्थः । किं पुनर्यथछिखितानुभाव्येष विदूषकः । ' राजा--ननु वार्यतामेष धृष्टः ’ इत्यादिना ' बंधनस्थम् ' इत्यंतेन तन्मयत्वप्रवासविप्रलम्भकामदुशावस्था सूचिता । ' तन्मयं तप्रकाशो हि बाह्याभ्यंतरतस्तथा ’ इति तल्लक्षणात् । पौरोभाग्यं दोषदर्शित्वम् । "दोषैकदृक्पुरोभागी ’ इत्यमरः । दर्शनेति । तन्मयेन शकुंतलामयेन साक्षादिव दर्शने सुखमनुभवतो मम स्मृतकारेण चित्रमिति स्मरणं कारि ( कृ ) तवता त्वया कांता चित्रीकृतालेख्यस्था कृता । अथवाश्चर्यरूपा कृता । ' आलेख्याश्वर्ययोश्वित्रम् ’ इत्यमरः ! स्मृतिकारिणा चित्रीकृतेति शब्दशक्तिमूलो विरोधाभासो व्यङ्ग्यः । उत्प्रेक्षा । बतवतेति येनयेनेति कृताकांतेति छेकश्रुत्यनुप्रासाः । भोजेन तु ‘ परप्र यत्नादपि स्मरणे स्मरणालंकारः ’ इयुक्त्वा तदकुंकारे इदमुदाहृतम् । राजा--अकारणपरित्याग--' इत्यादिनैतदन्तेन चित्रं नाम संध्यंतरा- ङ्गमुपक्षिप्तम् । तल्लक्षणम् --' चित्रं त्वाकारस्य विलेखनम् ’ इति । पूर्वा परविरोध्यपूर्व एष विरहमार्गः । पूर्व चित्रस्य चित्रत्वेन ज्ञानम्, पुनस्त स्योन्मादावस्थायां सत्यत्वेन ज्ञानम्, पुनरपि चित्रत्वेन ज्ञानमिति पूर्वा परविरोधः । उन्मादावस्थानंतरं मूर्च्छाद्यवस्थाया अभावादािति भावः ।


नुभवव्यवगच्छति ध्यायतीति यथालिखितानुभावी । वयस्येति । पुरोभागी दोषैकदर्शी तस्य कर्म पौर्वभाग्यम् । " गुणवचनब्राह्मणादिभ्यः कर्माणि च ” इति व्ययप्रत्ययः "नस्तद्धिते ” इति टिलोपः । दर्शनसुखमित्यादि । साक्षात्तत्वतः । तन्मयेन


{{ विकिरति इति क्वo पु० पाठः । २ विहाणमग्गो ( विधानमार्गः ) इति क्व० पु° पाठः ।}}