पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


मातृगुप्ताचार्यैः - ‘प्रख्यातवस्तुविषयं धीरोदात्तादिनायकम् । राजर्षिर्वंशचरितं तथा दिव्याश्रयान्वितम् ॥ युक्तं वृद्धिविलासाद्यैर्गुणैर्नानाविभूतिभिः । शृङ्गारवीरान्यतरप्रधानरससंश्रयम् । प्रकृत्यवस्थासंध्यङ्ग-संध्यन्तरविभूषणणैः । पताकास्थानकैर्वृत्तिं तदङ्गैश्च प्रवृत्तिभिः ॥ नाट्यालं


गर्वेण परापवादादुद्धतत्वं सूचितम् ॥ "यथोचितनिजोत्कर्षवादी प्रौढ इतीर्यते यथा करुणाकंदले - "कविर्भारद्वाजो जगदवधि जाग्रन्निजयशाः" इत्यादि । युक्त्या निजोत्कर्षवादी प्रौढ इत्यपरे जगुः । यथा मदीये नैषधानन्दे- वक्रोक्त्यलंकाररसातिशायि व्यंग्योर्मिलम्" इत्यादि विनीतो विनयं विनयं जल्पन् स्वापकर्षप्रकाशम् । यथा राजानंढे-‘‘गुणो न कश्चिन्मम वाङ्निबन्धे लभ्येत यन्नेन गवेषितोऽपि इम्यादि । प्रथितवस्तुनेत्यनेन रसानुगुणोचितपरिग्रहपरित्यागाभ्यां समुचितकथासंधटना प्रकारचातुरी द्योत्यते । न तु कालिदासकृतवस्तुनेत्युक्तं अनेन स्वकृतेः सन्निबन्धत्वं सून्यते । तेनैतत्प्रबन्धकरणेन भूमौ सहृदयेषु स्वस्या नश्वरी प्रतिष्ठा देवायतनादिकरणेनेव भवत्विति ध्वन्यते । तदुक्तम् लोचने - उपेयुषामपि दिवं सनिंबंधविधायिनाम् । आस्त एव निरातङ्कं काव्यं कांतिमयं वपुः ॥ धर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च । करोति कीतिं प्रीतिं च साधुकाव्यनिबन्धनम्॥” इति । सत्कारव्यजन्या कीर्तिरेव प्रयोजयितृकर्तॄणां चिरस्थायिनीति प्राक्तनैर्बहुधा प्रतिपादितम् । तदुक्तम् - काव्यं नाम कवीन्द्राणां महतां च महीभुजाम् । एका कीर्तिमयीमूर्तिरेधते भुवनत्रये ॥ मूर्तयः पाञ्चभौतिक्यो न द्वित्रक्षणसौहृदाः । मूर्तयः कीर्तिमय्यो हि तिष्ठन्त्याभूतसप्लवम्" इति । एतदवधार्य कैश्चन महानुभावैश्चिरावस्थानहेतोर्मूर्तित्वेन कीर्तय एवाङ्गीक्रियन्ते । ताश्च तेषां महाप्रलयपर्यन्तस्थायिन्योऽपि भवन्ति तर्हि कवीनामेव काव्यजन्या कीर्तिरस्तु इतरेषां पुनर्बहुविधधनसंम्यग्वितरणशौर्याद्यनेकोपायजनिताः कीर्तयः प्रथन्ते तेषां किमनेन कायेनेनाशंक्याह "काव्यबन्धेन सम्बन्धः कांक्षिणीया यशस्विनाम् ॥ न कदाचन नश्यंतिं कृत्स्ननाशेऽपि कीर्तयः ॥ ’ इति । प्रतिग्रहीत्रनुसन्धात्रादीनां सर्वेषां नाशेऽपि काव्यबन्धजाः कीर्तयो न नश्येतीति विशदयति - "वाल्मीकीयेन कायेन वर्घते रामकीर्तनम् । बाणस्य काव्यबन्धेन श्रीहर्षः ख्याप्यतेऽधुना" इति । एवं काव्यायत्तमेव कीर्तिस्थापनमिति बहुधा प्रतिपादितम् । उकं च - "न रूपेण न शौर्येण नाचारेण न विद्यया । प्रतिष्ठां भजते कीर्तिः काव्येनेच यशस्विनाम् ॥" इति । तर्ह्यन्येऽपि देवायतनतटाकारामाग्रहारादयो विद्यन्ते त एव कीर्तेः प्रतिष्ठापका भवन्तु किं काव्येनेत्याशंक्य व्यतिरेकमुखेन तदेकावलंबनत्वं कीर्तेः प्रतिपादयति - "कल्पांतरस्थिरं काव्यं स्यान्नचेदवलम्बनम् । कीर्तिवल्ली स्वर्गफला किमवष्टभ्य वर्धताम् ।” इति । स्वर्गो हि फलं कीर्तेः स्वर्गश्च स्वमनोरथानुरूपनिरतिशयसुखानुभवरूपः तादृशलोकोत्तरमफलोद्वहनसमुचितव्याप्तिमत्याः कीर्तेरक-