पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३९४ )
[ षष्ट‌ः)
अभिज्ञानशाकुन्तलम् ।


राजा--भातले, अतः खलु सबाह्यकरणो ममान्तरात्मा प्रसीदति । ( रथाङ्गमवलोक्य ) मेघपदवीमवतीर्णौ” स्खस्तावत् ।
मातालिः--कथमवगम्यते ।

राजा-

अयमरविवरेभ्यश्चातकैर्निष्पताग्नि-
हॅरिभिरचिरभासां तेजसा चानुलिप्तैः।
गतमुपरि घनानां वारिगर्भादराणां
पिशुनयति रथस्ते सीकरक्लिन्ननेमिः ॥ ७ ॥

दितिजांश्च हत्वा प्रणम्य चषन्प्रथमक्रमेण । महीं महाचैः सहितां महार्णवां जहार रत्नाकरपत्तनैर्युताम् । भुवं सनाकं त्रिदशाधिवासं सोमर्कऋक्षैरभिनन्दितं नभः । देवो द्वितीयेन जहार वेगाक्रमेण देवप्रियमीप्सुरीश्वरः ।।" इति । अन्यत्रापि-‘क्रमेणैकेन जगतीं जहार सचराचर (रा ) म् । नभश्चक्रमतस्तस्य सूर्येन्दू सख्यक्षिणौ । द्वितीयेन क्रमेणाथ स्वर्महर्जनतापसा’ इति । विष्णुपुराणेऽस्यान्वर्युतायुक्ता–‘यावन्त्यष्चेव तास्तारास्तावन्तो वातरश्मयः । सर्वे धुवनिबद्धास्ते भ्रमन्तो भ्रामयान्ति तम् ॥ तैलपीडा यथा चक्रं भ्रमन्तो भ्रमयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः ।। अलातचक्रवद्यन्ति वातचक्रेरितानि तु । यस्माज्ज्योतींषि वहति’ इति । तदुक्तं सिद्धान्तशिरोमणौ–‘भूमेर्बहिर्द्र दशयोजनानि भूवायुपुत्राम्बुध्युवेद्ताद्यम् । तदूर्ध्र्वगो यः स चिरंगतस्य प्रयागातिस्तस्य तु मध्यसंस्था । नक्षत्रकक्षाः खचरैः समेता यस्मादतस्तेन समागतोऽयम् । जरः खे चक्रयुक्तो (?) भ्रमत्यजस्त्रं प्रवहानिलेन । इति ॥ अङ्गभूतमहापुरुषचरितवर्णनादुदात्तलंकारः । अनुप्रासश्च । वसन्ततिलकं वृत्तम् । अतः पूर्वोक्तप्रवहवायुस्कन्धसंचारतः सवाह्यकरणो बाझेन्द्रियसासहितः । अयमीत । सीकरैरम्बुकणैः क्लिन्ना आर्द्रा नेमिश्चकप्रांतो यस्य स तैऽयं रथः । अराणि चक्राङ्गानि तेषां विवरेभ्यश्छिद्रेभ्यः ।


विवहाख्यश्चतचैव ग्रहृमंडलम् । सप्तर्षिचक्रं खगेंगों षष्टिः परिषहस्तथा । परावहस्तया वायुर्वर्तयेद्भवमंडलम् ! ” इति। अयमरविवरेभ्य इत्यादि । अरविवरेभ्यः अराणां


१ सबायांतःकरणो मम इति क० पु० पाठः ।