पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४०९ )
टीकाद्वयसहितम्।


मातालिः-क्षणादायुष्मान्स्वाधिकारभूमे वर्तिष्यते ।
राजा--( अधोऽवलोक्य ) वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते

मनुष्यलोकः । तथाहि ।

शैलानामवरोहतीव शिखरादुन्मज्ञतां मेदिनी
पर्णस्वान्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
केनाप्युत्क्षिपतेव परंय भुवनं मत्पार्श्वमानीयते ॥ ८ ॥

‘अरं शीघ्रे च चक्राङ्गे'.इति विश्वः । निष्पतद्भिर्निगैच्छद्रिश्वतकैः पाक्षि- विशेषेः कृत्वाचिरभासां विद्युतां तेजसानुलितैः परीतैर्हरिभी रथाश्वैश्च कृत्वा वारिगर्भाण्युदराणि येषां ते तादृशाम् । अनेन संपूर्णजलभरितत्वं ध्वनितम् । गभेदयोरन्यतरोपादाने तु संबन्धमात्रप्रतीतेः । घनानामुपरि गतं गमनं पिशुनयाते सूचयति । ‘ पिशुनौ खलसूचकौ ' इत्यमरः । अत्र वारिंगर्भोदराणामित्यस्य हेतुद्वयं प्रयार्थं हेतुत्वं वोद्धव्यम् । तेन हेतुकाव्यलिङ्गयोरङ्गाङ्गिभावलक्षणः संकरः । वारिंगभोद्रत्वं प्रति रथविशेषणस्यार्थे हेतुत्वं वोद्वचम् । रेभ्यरिभिरभेति छेकवृत्त्यनुप्रासौ । मालिनी वृत्तम् । क्षणादिति रथवेगसूचनम् । स्वस्याधिकारो यस्यां सा स्वाधिकारा । सा चासौ भूमिश्च तस्याम् । शैलानामिति । उन्मघ्नतां प्रकटीभवताम् । अत्रोन्मज्जनेन कारणेन प्रकटयं कार्यं लक्षयता तद्गत


नेभ्यघटंभमंडलाकारचक्रवयवनाम् । विवरेभ्यः अंतरालप्रदेशेभ्यः वारिंगभंदराण वारि गमें एषां तानि तथोक्तानि तान्युदराणि एषां ते तथोक्ताः । तेषां गतं गमनम् । पिशुनयति सूचयति । वर्त्तमानश्यपदेशेनाद्यापि मेघमार्गे एव रथः शनैर्गच्छतति मातलिं प्रति वदतीति व्यज्यते । अत एव मातलिरह–!क्षणादूर्ध्वमित्यादि। क्षणादुपरि आत्माधिकारभूमौ भूलोके इतः परं शीतुं रथस्तु गमिष्यतीति भावः । शैलानामित्यादि । उन्मज्ञतामुच्छतामिव स्थितानां शैलानां भूमिस्थसकलपदार्थापेक्षयधिकोन्नत पर्वतानां शिखरात् मेदिनी या समतया दृष्टा खा भूभिः । अवरोहति अधो गचद


१ क्षणादूर्वं इति क० पु० पाठः । २ आत्माधिकारभूमौ इति क० पु' ष'
३ पर्णाभ्यंतर इति कo पु० पी: । ४ व्रजंति इति क० पु० पाठः ।
५ मर्यभुवनं इति हे० उ० पाठः।