पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
(४१२ )
[सप्तमः
अभिज्ञानशाकुन्तलम् ।


मातलिः - एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजा - मातले, कतमस्मिन्प्रदेशे मारीचाश्रमः।
मातलिः - ( हस्तेन दर्शयन् )

वल्मीकाग्रनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥११॥


तलस्पर्शतया भूमिस्पर्शाभावेन रथाङ्गनेमयश्चक्रप्रधय उपोढशब्दाः कृत- स्वना न । रजश्च नेम्युद्धतं प्रत्रर्तमानं न दृश्यते । अनिरुद्धतोऽनिरो- धात् (?) । यतो भूतलस्पर्शे सत्यवतरणे रश्मिनिरोधो भवाते । अत्र तदभवात् । अत एवाभूतलेति त्रिष्वपि हेतुत्वेन योज्यम् । तव रथोऽवती- र्णोपि न लक्ष्यत इति न । अपि तु लक्ष्यत एव (?)। ‘तवावतीर्णो- ऽपि’ (?) इति क्वचित्पाठः । तत्र काक्वा व्याख्येयम् । अत्र रथावतरणे कारणे सति तत्कार्याणां नेमिशब्दादीनामभावादुक्तनिमित्तकापि विशे- षोक्तिः । श्रुत्यनुप्रासश्च । अवतीर्णोऽपि न लक्ष्यत इति विरोधाभासोऽपि । वंशस्थं वृत्तम् । एतावानेवेति व्यतिरेकालंकारः । हस्तेनेत्युत्तानितेन पताकेन । वल्मीकेति । वल्मीकस्य पिपीलिकाकृतमृत्युंजयस्याग्रं प्रान्त- स्तत्र निमग्ना मूर्तिः शरीरं यस्य सः । ‘अग्रमालम्बने व्राते ? इति विश्वः । ’मूर्तिः काठिन्यकाययोः' इत्यमरः । अनेनानेककालतपश्चरण- मुक्तम् । संदष्टाः सर्पत्वचो यत्र तेनोरसोपलक्षितः अनेन सर्वजन्तु- साधारणत्वमुक्तम् । कण्ठे । जीर्णेत्यनेन स्थूलवं बहुशाखत्वं ध्वनितम् । लताप्रताडनं वल्लीसमूहः स वलय इव कण्ठरोमाणीवेत्युपमितसमासः । संपीडनस्य साधकत्वात् । ’वलयः कण्ठरोम्णि स्याद्वलयं कङ्कणेऽपि च’ । इति विश्वः । तेनात्यर्थसंपीडितः । अनेनापकारिण्ययुपकारकत्वमुक्तम् । अंसयोर्व्याप्नोति तदंसव्यापि । अनेन महत्त्वमुक्तम् । शकुन्तानां पक्षिणां


कल्पः मुख्यः पक्षः । वल्मीकेत्यादि । उरसा उपलक्षितः । स्थाणुरिव शाखा-


१ वल्मीकार्ध इति क्व० पु० पाठः ।