पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४२० )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


राजास्पृहयामि खलु दुर्ललितायास्मै ।

आलक्ष्यदन्तमुकुलाननिमित्तहासे-
रव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो
धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १७ ॥

 तापसी - होदु । ण मं अञं गणेदि । ( पार्श्वमवलोकयति ) को एत्थ इसिकुमाराणं । (राजानमवलोक्य ) भद्दमुह, एहि दाव । मोएहि इमिणा दुम्मोअहत्थग्गहेण डिम्भलीलाए वाहीअमाणं बाढमिइन्दअं। [भवतु न मामयं गणयति । कोऽत्र ऋषिकुमाराणाम् । भद्रमुख, एहि तावत् । मोचयानेन दुर्मोकहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् ]

 राजा - (उपगम्य । सस्मितम् ।) अयि भो महर्षिपुत्र,


इति तथेति । अनेनैव तावत्क्रीडिष्यामि ! अस्मै इति ’स्पृहेरीप्सितः’ इति संप्रदानत्वे चतुर्थी । आलक्ष्येति । अनिमित्तहासैरकारणहासैर्दन्ता मुकुला इवेत्युपमासमासः । हासानां साधकत्वात् । आ ईषल्लक्ष्या दृश्या दन्तमुकुला येषां ते तान् । अव्यक्ता वर्णा यासु ता अत एव रमणीया वचःप्रवृत्तयो वाग्व्यापारा येषां तानिति बहुव्रीहिगर्भो बहुव्रीहिः । अङ्के कोडे य आश्रमः स्थितिस्तत्र प्रणयो याच्ञा प्रीतिर्वा येषां बालानामङ्ग- रजसा मलिनीभवन्ति । अत एतद्बालेत्यादिविशेषे प्रस्तुते सामान्यवच- नादप्रस्तुतप्रशंसा । तया चाहमवन्य इति व्यज्यते । णीयणयीति स्तस्तेति नयान्येति छेकवृत्तिश्रुत्यनुप्रासाः । वसन्ततिलका वृत्तम् । भवतु न मामयं गणयति । कोऽत्र ऋषिकुमाराणाम् । भद्रमुख, एहि तावत् । मोचयानेन दुर्मोकहस्तग्रहेण । दुर्मोको मोचयितुमशक्यो हस्तेन ग्रहो यस्यार्थादस्माभिस्तेन । डिम्भलीलया बालक्रीडया बाध्यमानं बालमृगेन्द्रं


भिन्नं विकासितम् । स्पृहयामीति । दुर्ललिताय धृर्ताय कोऽत्र ऋषिकुमाराणाम् । निर्धारणे षष्ठी । भद्रमुखेति मान्यस्यामंत्रणे ‘सौम्य भद्र मुखेत्येवं मान्यो राजसुतो भवेत्’ इति । आ-


१ दुम्मोअहत्थग्गाहेण (दुर्मोचहस्तग्राहेण ) इति क्व० पु० पाठः ।