पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४२६ )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


 उभे~मा क्खु एदं अवलम्बिअ । कहं गहीदं णेण । ( इतेि विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः ) मा खल्विदमवलम्ब्य ।। कथं गृहीतमनेन ।

 राजा--किमर्थं प्रतिषिद्धाः स्मः ।

 प्रथमा-सुणाडु महाराओ । एसा अवराजिदा णाम ओसही इमॅस्स जातकम्मसमए मअवदा मारीएण दिण्णा । एदं किल मादापिदरो अप्पाणं च वज्जिअ अवरो भूमिपडिदं ण गेण्हादि । [ शृणोतु महाराजः। एषापराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल सातापितरावात्मानं च वर्ज- यित्वापरो भूमिपतितां न गृह्णाति ]

 राजा---अथ गृह्नाति ।

 प्रथमा-“तदो तं सप्पो भविअ दंसइ । [ ततस्तं सर्पो भूत्वा दशति]


मा खल्विदमवलम्ब्य । कथं गृहीतमनेन । उरोनिहितहस्ते इति विस्म याभिनयः । एतदुक्तमादिभरते चित्राभिनयाध्याये --‘ शिरोधृतं पताकश्च वक्षस्थो विस्मये भवेत् ’ इति । अनेनैतस्तुयी (?) अद्भुतरसो व्यज्यते । तल्लक्षणं प्रागुक्तमेव । उक्तं च धनिकेन--‘ कुर्यान्निर्वहणेऽद्भुतम् इति । आदिभरतेनापि-- ‘ निर्वहणे कर्तव्यो नित्यं हि रसोद्भुतः कविभिः इति । अनेनोपगूहनलक्षणमंगमुपाक्षिप्तम् ’ तल्लक्षणं तु --‘ अद्भुत स्य तु या प्राप्तिर्भवेत्तदुपगूहनम् ’ इतेि । शृणोतु महाराजः | एषापरा जिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन काश्यपेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वापरो भूमिपतितां न गृह्वति ततस्तं सर्पो भूत्वा दशात । अनेकशः । “ प्रथमा-सुणादु महाराजो २ इत्यादिना “ अणेअस ? इत्यनेन पूर्वभावनामकमङ्गमुपक्षिप्तम् । तल्लक्षणं


शकुन्तस्य पक्षिणः लावण्यम्। अंगसौष्ठवम् । अम्ह इत्यादिना परस्परमलोकयंत इत्यन्तेन अद्रुतार्थप्राप्तिरूपगूहनं नाम सन्ध्यगभुक्तम् । तदुक्तं ‘‘ अत्यद्भुतार्थसंप्राप्तिरूपगूहनमु-


१ मा खु मा खु ( मा खलु मा खलु ) इति क० पु० पाठः। २ इमरभ ( अस्य ) इति ङ० पु• पाठः । ३ सब एव ( सद्य एव ) इत्यधिकं व० पु० ।