पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४४२ )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


 राजा-अवहितोऽस्मि ।
 मारीचः-यदैवाप्सरस्तीर्थावतरणात्प्रत्येक्षवक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः
 राजा-( सोच्छासम् । ) एष वचनीयान्मुक्तोऽस्मि |
 शकुन्तला-( स्वागतम् ) दिट्टिX अकरणपच्चादेसी ण अज्जउत्तो । ण हु सत्तं अत्ताणं सुमरोमि ! अहवा पत्तो मए स हि साबो विरहसुण्णहिअआए ण विददो ! अदो सहीहिं संदिX ह्मि भत्तुणो अङ्गुलीअअं दंसइदव्वं त्ति / [ दिष्ट्याकरणप्रत्यादेशी नार्यपुत्रः । न खलु शप्तमात्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशृXन्यहदयया न विदितः। अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति ] ।
 मारीचः- वत्से, चरितार्थासि । सहधर्मचारिणं प्रति न त्वया । मन्युः कार्यः । पश्य ।


निXषेधे । आत्मनोऽपराधस्तच्छङ्कयालमिति समन्वयः । दाक्षायणीमदितिम् । ध्यानादवगतं ज्ञानं विद्यते यस्मिन्नित्यवगतोऽस्मि ज्ञानवानस्मि । ‘ मारीचः - वत्स, अलमात्मा-, इत्यादिना ' दर्शनावसानः ' इत्यन्तेन निर्णयनामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु -- अनुभूतार्थकथनं निर्णयः समुदाहृतः ' इति । वचनीयाल्लोकापवादात् । दिष्ट्याX दैवेन । अकारणप्रत्यादेशी नार्यपुत्रः । न खलु शप्तमात्मानं स्मरामि | अहवा अथवा प्राप्तो स हि शापो विरहशून्यहृदयया न विदितः। अतः सखीभ्यां संदिष्टास्मि भर्तुरंगुलीयकं दर्शयितव्यमिति । चरितार्थः कृतार्थासि । सहधर्मचारिणं


सान इत्यन्तेन अनुनयो नामालंकारो व्यज्यते । तदुक्तं उभयोः प्रतिजननो विरुद्धाभिनिवेशयाः । अर्थस्य साधकश्चैव विशेयोऽनुनयो वुःX । इति । अत्र शकुन्तलादुष्यन्तयःX


१ प्रस्थादेशविक्लवां इति क० पु• पाठः । २ सच्चंसस्यं ) इति क' पु० पात्रः ।

३ भत्रे इति क० पु० पाठः ! ४ विदितार्था इति क० पु० पाठः ।