पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४४३ )
टीकाद्वयसहितम्।


शापादसि प्रतिहता स्मृतिरोधरूक्षे
भर्तर्यपेततमसि प्रभुता तवैचे ।
छाया न मूर्छति मलोपहतप्रमादे
शुद्धे तु दर्पणतले सुलभावकाश ॥ ३२ ॥

 राजा-यथाह भगवन् ।
 मारीचः --वत्स, कच्चिदभिनन्दितXम्बया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ।
 राजा-भगवन्, अत्र खलु मे वंशप्रतिष्ठा ।
 मारीचः--तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य ।


प्रति । पश्येति । वाक्यार्थस्य कर्मत्वम् । शापादिति। शापात्वं प्रतिहतासि तिरस्कृतासि | अर्थाद्भत्रैत्यर्थः | शापादित्यनेन तस्य दोषाभाव उक्तः । पूर्वं स्मृतेः स्मरणस्य रोधेन रूक्षे निःस्नेह इव। अत्रापि शापादित्यनुपज्यते अधुनापेतं दूरीभूतं तमः शापलक्षणं यस्मादेवंभूते भर्तरि तवैव प्रभुता । असंबन्धे संबन्धातिशयोक्तिरियं भर्तृसंबद्धायाः प्रभृतायाः प्रसिद्धत्वात् । अथ च यो भर्ता स प्रभुः, या वनिता सा गुणभूता इति शास्त्रस्थितौ भर्तृत्वं तस्मिन्प्रभुता चास्यामित्यसंगतिश्च | अतिशयोक्त्या सहाङ्गाङ्गिभावः | मलेनागन्तुकेन दोषेणोपहतो दूरीकृतः प्रसादो यस्य तस्मिन्दर्पणतल आदर्शे छाया प्रतिबिम्बं न मूर्छति न प्रसरति ।' छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपे ' इत्यमरः । सा छाया शुद्धे निर्मले दर्पणतले सुलभावकाशा । अत्यंतं व्यक्ता दृश्यत इत्यर्थः । हेतुदृष्टान्तौ |


प्रीतिजनको दुष्यन्ते रोषाभावसाधकां मारीचमुनिवाक्योपन्यासः । शापादित्यादि । शापाद्धेतोःX स्मृतिरोधरूक्षे स्मृतेः स्मरणस्व रोधः प्रतिबन्धः तेन रूक्षः कृरः तस्मिन सतिX प्रतिहनाX प्रत्यादिष्टाX । तस्मिन्नपेततमसि सति पXदिगुलीयकदर्शनेन प्राप्तस्मरणे सXत्यभिप्रायः | प्रभुता प्रधाननायिका त्वं तवैवं पूर्ववदेवX अनेन पारग्रहबहुत्वेऽपीत्यादिनाX । यदुक्तं Xतारामृश्यते |अत्र दृष्टान्तमाह-न मलोपहXप्रसाद इत्यादिना । नथेत्यादि।


१ एवं इति कo पु० पाठः। : विभाति न इति क० पु. पाठः ।