पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४४६ )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


युगशतपरिवेतनिवमन्योन्यकृत्यै-
र्नयतमुभयलोकानुग्रहश्लाघनीयैः ॥ । ३४ ।।

 राजा--भगवन् यथाशक्ति श्रेयसि Xयतिष्ये ।
 मारीचः--वत्स, किं ते भूयः प्रियमुपकरोमि ।
 राजा-अतः परमपि प्रियैमस्ति । यदिह भगवान्प्रियं कर्तुभिच्छति तर्हीदमस्तु भरतवाक्यम् ।

प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयसाम् ।
ममापि च क्षपयतु नललोहितः
पुनर्भXवं परिगतशक्तिरात्मभूःX ॥ ३०॥


भवतु । समये प्रभूतनलवर्षणेन भूलोकं पुष्यनु इत्यर्थः। विततयज्ञ आह्वतयज्ञसंभारः उक्तं च दण्डनीतौ-'राजा त्वयान्समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहसुX महती वृष्टिमXहेत् ॥' इति । युगानां शतानि तेषां परिवतःX परिवृत्तयस्तान् | उनयोर्लोकयोद्यीवापृथिव्योरनुग्रहेण श्लाXनीयैः | प्रशंसनीयैः । मालिनीवृत्तम् ] किं ते भूयः प्रियमुपकरोमि । इत्यनेन काव्यसंहारलक्षणमङ्गमुपाक्षिप्तम् । तल्लक्षणं तु -- 'वरप्रदानसंप्राप्तेः काव्यसहारः । इति । भरतवाक्यं नटवाक्यम् । नाटकाभिनयसमाप्तौ सामाजिकेभ्यो नटेनाXXXइदियत इत्यर्थः । प्रस्तावनानन्तरं नट्वाक्याभावाद्X भरतवाक्यमित्युक्तिः । प्रवर्ततमिति । प्रकृतिहिताय


विडौजाः देवेन्द्रः विनतयज्ञः विस्तृतयाग: । अलं भावय संभावय । एवमनेन प्रकारेण उभयलोकानुग्रहXत्रनीयैः उभौ लोकौ मज्जस्वर्गलोको Xतयोरनुग्रहः अत्युXपपत्तिः तेनX श्लावनबिः स्तुत्यैः अनेनोपसंगतिXम सन्ध्यंगमुXक्तम् । कं च ‘वराभिः कार्यसंसति:' इतेि । अत्र मारीचेन मुनिना गज्ञो वरप्राप्तियोगान्। वत्स किं ते भूय इत्यादि । उपहरामि समर्पयामि अतः परमपि अधिकमपि भरतस्य नटाध्यक्षस्य वाक्यं वचनम् । प्रवर्ततामिति । पार्थिवो राजा Xज्ञातावेकवचनम् । प्रकृनिहितायX प्रकृतीनां प्रजानां


३ परिवर्तानि इति कं० पु• पाठः । २ श्रेयसे प्रयन्निर्थे इनि ई० पू० पाठः ।

३ उपहराभि इति ई० पु० पाठः । ४ यदि भगवान्प्रसादं कर्तुमिच्छति ।

तथापीदमस्तु इति इ० पु० पाठः । ५ सद्दीयताम् इति ९ पु° पछः ।