पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४४७ )
टीकाद्वयसहितम्।


 मारीचः-“तथास्तु ।

( इति निष्क्रांताः सर्वे )

इति सप्तमोऽङ्कः ।


पौरश्रेणिहितायपार्थिवः प्रवर्तताम् । श्रुतेन शास्त्रश्रवणेन महतां गरिष्ठानां महीयसामुत्कृष्टानामुत्कृष्टशक्तिमतां कवीनाम् | विशेषणेनैव विशेष्यप्रतिपत्तेर्न विशेष्योपादानाम् | सरस्वती प्रवर्ततामित्यनुXषज्यते । आदिकिXयादीपकम् | नीललोहितो महादेवो मम पुनर्भवं जन्मान्तर क्षपयतु नाशयतु । कीदृङ् नीललोहितः आत्मना भवतीत्यात्मभूः । परितो गता व्याप्ता शक्तिः सामर्थ्यमस्येत्यनेन तत्तच्छाक्तेत्वं व्यज्यते | Xक्रियासमुच्चयः | तमतामेति महमहीति छेकवृत्यनुप्रासौ । रुचिरा वृत्तम् । तल्लक्षणं तु--'चतुर्गृहौरिह रुचिरा जभौ सजौ ग: ' इति | अनेन प्रशस्तिनामकमङ्गमुपक्षिप्तम् । तल्लक्षणमादिभगते --‘ देवाद्विजनृपादीनां प्रशस्तिः स्यात्प्रशंसनम् । इति |।

इति श्रीमदभिज्ञानशाकुन्तलटीकायामर्थद्योतनिकयां

सप्तमोऽङ्कः समाप्तः ।


हिताय इष्टाय श्रुभिङ्गमहतां श्रेष्टानाम् । 'श्रुतं शाXXXतयोः ’’ इत्यमरः । सरस्वती महीयताX पूज्यताम्। परिगतशक्तिः प्राप्तशक्तिः अर्धनारीश्वर इति यावत् । अत एव नीललोहितः वामभागे नीलो दक्षिणभागे लोहितः । तथा चोक्तम् ' अर्धमिन्द्रमXमेचकXXX प्रक्रियां वहति विद्रुमराशे:’ इति |आत्मभूः स्वयंभूः मनापि पुनर्भवं पुनर्जन्म क्षपयतु अपाकरोतु । अनेन प्रशस्तिर्नाम सन्ध्वXगमुक्तं भवति । प्रशस्तिस्तु शुभाशंसा ” इति। अत्र पुनर्जन्मक्षपणस्यात्यन्तनिषिद्धत्वोपलक्षितपरमानन्दस्वरूपत्वे शुभत्वम् । अतस्तदाशंसा भवति । एवं सर्वनाटकेषु भरतवाक्येषु शुभाशसां योजनीया। इति तिष्क्रान्ताः सर्वे ||

इति श्रीरमणवेंकटाचलेश्वरपादारविन्दसमाराधकवैखानसकुलतिलककौशिकगोत्र- श्रीवेंकटभट्टइतिगोत्रXमागतभट्टविरुदतिरुमलाचार्यपुत्रेण Xध्वनिप्रस्थान परमाचार्येणाष्टभापाचक्रवर्तिश्रीनिवासाचार्येण विरचितायामभिज्ञानशाकुन्तलव्याख्यायां सप्तमोऽङ्कः ।

इति टीकाद्वयसहितमभिज्ञानशाकुन्तलं नाम नाटकं समाप्तम् ।


पुस्तक मिलनेका ठिकाना ।

गंगाविष्णु श्रीकृष्णदास | खेमराज श्रीकृष्णदास , 'लक्ष्मीवेङ्कटेश्वर’ प्रेस, कल्याण-मुम्बई.| 'श्रीवेङ्कटेश्वर’ स्टीम् प्रेस- मुम्बई.