पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ अमरकोशः [प्रथमकाण्डः सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः ॥ १७ ॥ अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् | 'प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ।। १८ ।। ( वि.) सुषमेति - सुष्ठु समा सुषमा । उत्कृष्टशोभानाम | शोभत इति शोभा । ·6 'शुभ शोभने ' । 'शुभ शुम्भ शोभार्थे ' इति वा धातुः । काम्यते यया कान्तिः । 'कमु ‘कान्तौ ' । द्योतत इति द्युतिः । 'द्युत दीप्तौ' । छ्यति नाशयति अन्धकारमिति छविः । 'छो छेदने' । छ्यति अशोभामिति वा । कान्तिमात्रनामानि ॥ अवश्यायतेऽवपततीत्य- ‘वश्यायः । ‘श्यैङ् गतौ' । 'नितरां ह्रियतेऽग्निना नीहारः । 'हृञ् हरणे' । तप्तं तोषयतीति 'तुषार: । 'तुष तुष्टौ' । तोहति' पद्ममिति तुहिनम् । 'तुहिर् अर्दने' । हिनोति वर्धत 'इति हिमम् । 'हि गतौ वृद्धौ च । तापं हन्तीति वा हिमम् । 'हन हिंसागत्योः' । प्रलयात्' शरदन्तादागतं प्रालेयम् । मेहति 'भुवमिति मिहिका | 'मिह सेचने ' । हिमिकेति वा पाठः । हिनोति वर्धते हिमिका । ' हि गतौ वृद्धौ च ' । हिमनामानि | हिममहत्त्वं हिमानी, हिमस्य संहतिः । हिमसमूहनाम ॥ १७-१८॥ । 2 छवयति आशां जनयति असाविति छवि: । 'छवि 3 नितान्तं I, Y. 4 B2, C add आदिना. 6We adds अर्दयति. 9 महत् हिमं D.. 1 असारं B1, K3, W2, Y. · कान्तौ ' C; छवति D2, I, Ks. .: 5 तुष्यन्त्यनेन (ओषधिविशेषा इति C ) B, C, Di, I, U, Wi, Y. 7 प्रलये शरदन्ते भवतीति C, U. 8 भुवि B1, C, D1, U, Y. (पा.) सुषमा परमा शोभा । अधिकशोभा सुषमा स्यात् । 'राधा गोभा विभूषा 'स्यादभिख्या सुषमा तथा' इति केषांचिच्छोभामात्रमेवाभिमतम् ॥ शोभा - छविः । शोभानामानि ॥ अवश्यायस्तु – मिहिका च । हिमनामानि ॥ अथ हिमानी हिमसंहतिः । हिमसमूहनाम' ।। १७-१८ ॥ - 1 परम° B3. 2 A1 adds हिमानीत्यत्र 'इन्द्रवरुण — ' इत्यादिनानुगागमः . शीतं गुणे तद्वदर्थाः सुषिमः शिशिरो जडः । तुषार: शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ।। १९ ।। (वि.) शीतमिति — गुणे जाड्ये शीतं क्लीबे बोध्यम् । श्यायत इति शीतम्। “ श्यैङ् गतौ’। शैत्यगुणनाम ॥ तद्वदर्था: 'शीतपर्यायार्थाः अभिधेयवलिङ्गाः सप्त । सुष्टु सिनोति बध्नाति व्यापारमिति सुषिमः । 'षिञ् बन्धने' । सुष्टु श्यायते 'सुशीम इति