३. दिग्वर्गः] दाक्षिणात्यव्याख्योपेतः ६३ वा पाठः । 'श्यैङ् गतौ' । शिनोति पद्मशोभाः शिशिर': । 'शिञ् निशातने' । जडतीति जड: । ‘जल शून्ये' । डलयोरेकत्वस्मरणात् । तुष्यत्यनेनेति तुषार: । शीतं लातीति शीतलः । 'ला आदाने' । इयायत इति शीतः । हिनोति वर्धते हिमः । 'हि गतौ वृद्धौ च ' । एते अभियलिङ्गाः । शीतवद्रव्यनामानि ।। १९ ।। 1 शीतं शैत्ये जाड्ये क्लीबे B2, C. 2 °तद्वन्त: पर्यायाः अर्था: B2. 4 शिनोत्यर्थे यायते वा A, W1. A, D2, K1; B1 omits 2 lines. जघन्यं करोति, ‘जल जघन्ये' B2, C, W2, Y; 'जड मान्द्ये A. 'तुष तुष्टौ'. 7 K5, W1, Y omit °वद्. 3 सुशिम ° 5 जलति 6 C, D, add (पा.) शीतं गुणे । गुण इति स्पर्शविशेषे शीतं नपुंसकम्' । देवदत्तस्य शीतं वर्तते । तद्वदर्थाः – सप्तान्यलिङ्गकाः । सुषिमादयः शीतगुणविशिष्टाथ । विशेष्यलिङ्गका भवन्ति । सुषिमशब्दो ह्रस्वेकार: मूर्धन्यमध्यः । दीर्घकारस्तालव्यमध्य इति केचन पठन्ति । 'शीफरो मेलकः स्थिर: 2' । एतानि च ॥ १९ ॥ 1 नपुंसकाभिधायी शीतशब्दोऽप्यस्ति A1. 2 स्थित: A1. ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसंभवः । मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥ (वि.) ध्रुव इति – ध्रुवति स्थिरीभवतीति ध्रुवः । 'ध्रुव गतिस्थैर्ययोः' । उत्तानपादस्यापत्यम् औत्तानपादिः । ध्रुवनामनी ॥ अगं विन्ध्यं गिरिं स्त्यायति स्तम्भयतीति अगस्त्यः । अगस्तिरिति वा पाठः । 'स्त्यै शब्दसंघातयो: ' | 'कुम्भः संभवो यस्य कुम्भसंभवः। मित्रावरुणयोरपत्यं मैत्रावरुणिः । अगस्त्यमुनिनामानि ॥ विरहे सति शुश्रूषालोपेऽमुद्रा' न मुदं 'रातीति लोपामुद्रा' | ‘रा दाने' । समानो धर्मो- स्त्यस्याः सधर्मिणी । अगस्त्यभार्यानाम |॥ २० ॥ 3 पति- 1 कुम्भे D2, K2, K3, U, Y. 2 Bg omits 'मुनि'; °ऋषि’ W2. शुश्रूषण ° B1, C, I, Ks, Y, 4 लोपेन A, T. 5 D1, K1, K5, U, Wi add ददाति. 6 ° लोपेन मुन्न भवतीति अमुत्, अमुदम् असन्तोषं (सन्तोषाभावं Ba) रातीति अमुद्रा C. (पा.) ध्रुवः – स्यात् । ध्रुवनामनी ।। अगस्त्यः– मैत्रावरुणिः । अगस्त्यनामानि ।। अगस्तिरित्यप्यस्ति । ‘अगस्तिनाध्यासितविन्ध्यशृङ्गम्' इति भट्टिकाव्ये (१२. ७१) । ‘और्वशेयः कुम्भयोनिरगस्तिर्विन्ध्यकूटनः" इति वैजयन्ती ( पृ. ९९, लो. १५१ ) । अस्यैव सधर्मिणी । तस्य भार्या लोपामुद्रा स्यात् ।। २० ।। 1 °कुट्टन: B3; °कूटंक इति मुद्रितपुस्तके |
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१३७
एतत् पृष्ठम् परिष्कृतम् अस्ति