पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः ६५ ३. दिग्वर्गः] (वि.) राधेति - राध्यते पूज्यते राधा । 'राध साध संसिद्धौ'। 'विशाखति कान्त्येति विशाखा । 'शा व्याप्तौ' । विशाखानक्षत्रनामनी ॥ पुष्णात्यभिलषितमिति पुष्य: । 'पुष पुष्टौ' । सिध्यन्त्यर्था अस्मिन्निति सिध्यः । 'षिधु संराद्धौ' । साध्नोत्यस्मि- न्नर्थानिति सिद्धः । 'साध संसिद्धौ' | तुष्यन्त्यस्मिन् तिष्यः । त्वेषते प्रभया वा तिष्यः । 'त्विष दीप्तौ' । पुष्यनक्षत्रनामानि ॥ शुभकर्मणि श्रूयते श्रविष्ठा । 'श्रु श्रवणे' । 'दधन्ति धनं करोति धनिष्ठा । 'धन धान्ये' । धनिष्ठानामनी ॥ प्रोष्ठे सारे पदे यासां ताः प्रोष्ठपदा : 5। प्रोष्ठस्येव गोरिव पदे॰ यासां ताः इति वा प्रोष्टपदाः । भाद्रे सारे पदे यासां ताः भाद्रपदाः । प्रोष्ठपदानामनी ॥ २२ ॥ 1 विशेषेण शाखति व्याप्नोति कान्त्येति B2, C. 3 अनेन B2, C. 4 दधाति Y; ददाति धनिकं करोति 5 अथवा प्रोष्ठस्य मत्स्यविशेषस्य पदमिव पदं यस्याः B2, C. 7 भद्रं मङ्गलमनयोरस्तीति भाद्रे C. 8 C adds भद्राकार. 2 W2 adds अवलम्बिनम् B2, C, K5, U, W2- 6 मञ्चस्येव पदानि A. (पा.) राधा विशाखा । विशाखयोर्नामनी ॥ 'विशाखयोश्च' इति (१. २. ६२) पाक्षिकैकवचनम् । पुष्ये – तिष्यौ । पुष्यनक्षत्रनामानि ॥ श्रविष्टया समा धनिष्ठा । धनिष्ठानामनी ॥ स्युः - स्त्रियाम् । भाद्रपदानामनी ॥ समुदायसंख्यापेक्षया बहुव- चनम् ॥ २२ ॥ 1 स्त्रिय: B3. मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी | इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥ (वि.) मृगशीर्षमिति – मृगस्येव शीर्षमस्य मृगशीर्षम् । एवं मृगशिरः । अग्रे हायना नवव्रीहयोऽस्याः सन्तीति आग्रहायणी । हायनस्य वत्सरस्य अग्रमादिः अस्या अस्तीति वा । 2 मृगशिरोनक्षत्रनामानि || शिवबाणेन इल्यन्ते प्रेर्यन्त इति इल्वला: । 'इल स्वप्नप्रेरणयोः'। इन्वका इति वा पाठः । इल्वका इति वा । ‘इल प्रेरणे'। 'मृगशिरः- समीपस्थता रकानाम ॥ २३ ॥ 3 ° इति इल:, 4 तत्पक्षे इलन्ति 2 °शिर° K1. 1 अग्रे हायनो वत्सरोऽस्या अस्तीति B1, C, Y. वलन्ते चलन्तीति वला:, एवं धातुद्वयेन पदार्थनिर्वाहः । ‘वल संचलने’ C. शिवबाणवत् प्रापयन्तीति इलानि, तानि वहन्तीति वाः, धातुद्वयेन इल्वा इति भवति । इल्वा एव 5 शीर्ष इल्वकाः क प्रत्ययः, धातुद्वयं च 'इल प्रापणे', 'वह प्रापणे' B2, 6 ° स्थित ° A, K1, I. C. B2, I, Ks, U, W2. 5