पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः कोष्णं कबोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । तिग्मं तीक्ष्णं स्वरं तद्वन्मृगतृष्णा मरीचिका ।। ३५ ।। इति दिग्वर्गः ४. कालवर्गः] 93 (वि.) कोष्णमिति–किंचिद् उष्णं कोष्णम् । ईषदुष्णं कवोष्णम्। मन्दं च तदुष्णं च मन्दोष्णम् । किंचिदुष्णं कदुष्णम् । ईषदुष्णनामानि ॥ एषां धर्ममात्रे क्लीबत्वम् । 'धर्मिवृत्तित्वे अभिधेयलिङ्गत्वम् । तेजयतीति तिग्मम् । 'तिज निशातने ” । तीक्ष्णं च । खनतीति खरम् । 'खनु अवदारणे'। खुरमिति वा पाठः । खुरतीति खुरम् । ‘खुर 'छेदने'। अत्युष्णनामानि ॥ मृगाणां तृष्णास्ति' अस्यामिति मृगतृष्णिका । म्रियन्ते मृगा अनयेति मरीचिका । 'मृङ् प्राणत्यागे' । जलवत्प्रतीयमानसूर्यरश्मि - नामनी ॥ ३५ ॥ इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ दिग्वर्गविवृतिः 3 Di 1 मनागुष्णम् B1, K5, Y. 2 धर्मिणि त्रिलिङ्गत्वम् B2, K5, U, Y. adds क्षमायां च. 4 भेदने A, B1, T, K1. 5 तद्वदिति धर्मे क्लीयत्वं, धर्मिंणि त्रिलिङ्गत्वम् I, U, W2. 6 B2, D2, I, K1, K2, Kg omit अस्त्यस्यामिति. ७३ (पा.) कोष्णं - तद्वति । 'कोष्णादयोऽल्पोष्णवाचकाः, ते गुणे 'नपुंसकलिङ्गाः गुणिनि तु त्रिलिङ्गा भवन्ति । तिग्मं – तद्वत् | तिग्मादयोऽत्युष्णवाचकाः तद्वदिति कोष्णादय इव गुणे नपुंसकलिङ्गाः गुणिनि त्रिलिङ्गा भवन्ति ॥ मृगतृष्णा मरीचिका । सलिलवत्प्रतीयमानर विकिरणनामनी । आन्ध्रभाषायां 'यंडमावुलु' |॥ ३५ ॥ इति श्रीवत्स नृसिंहसूरि सुतमल्लिनाथ विरचितेऽमरपद्पारिजाते दिग्वर्गः 2 नपुंसकानि B3. 1 एतान्यल्पोष्णनामानि Bg, Ba. 4 मल्लिकार्जुन A1. 3 त्रिलिङ्गानि Bs. ४. कालवर्गः कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः । प्रतिपद् द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥