४. कालवर्गः] दाक्षिणात्यव्याख्योपेतः ७५. दिनं स्यतीति’ सायः। 'षोऽन्तकर्मणि' । दिनस्य पश्चाद्भागे मुहूर्तत्रयात्मककालनाम ॥ सम्यग् ध्यायन्त्यत्रेति॰ संध्या | 'ध्यै चिन्तायाम्' | अहोरात्रसंधौ भवा वा । पितॄणां प्रसूः माता पितृप्रसूः । दिनान्तादुपरि घटिकात्रयात्मकस्य सूर्योदयात् प्राक् पञ्चघटकात्म- कस्य च कालस्य नामानि ॥ २-३ ॥ 2 देहा: D2. 3 दिन' K3. 4 कालेन साम्यं W2. 6 प्रभातुं W1. 7 B1 adds समापयति; दिनम् 8 ° अस्यां विप्रैरिति वा संध्या, अर्कोदयास्तमयकाल: Y. 1 Ba adds व्यथयति. 5 B1, K5, W2, Y add उपरमयति. अन्तयति समापयतीति दिनान्त: B2. 9 घटिकात्मकस्य A, W2; सूर्यास्तमयात् प्राक् D2. (पा.) घस्रो – वासरौ । दिवसनामानि ॥ प्रत्यूषो– प्रभातं च । सूर्योदयात् प्राग् घटिकाचतुष्टयात्मककालनामानि । 'वैजयन्त्यां प्रत्यूषशब्दो नपुंसकलिङ्ग इति प्रतिज्ञातम् । 'व्युष्टं विभातं प्रत्यूषं सांयात्रिकमहर्मुखम्' इति (पृ. २२, श्लो. ६८) । शाश्वतकोशे 'काल्यशब्दो ह्रस्वादिः । 'कल्यं प्रभातमध्ये च कल्यो नीरोगदक्षयोः' इति (पृ. ३, लो. २४) । 'गोपीथो गोसर्गस्त्रिघोषः कथ्यते निशान्तश्च ' एतानि च ॥ दिनान्ते तु सायम्। दिवसावसानन म | सायमिति नपुंसकत्वेन निर्दिष्टम् । 'सायमण्ड त्वरयन्त्यः' इति । संध्या पितृप्रसूः | दिनान्तादुपरि घटिकात्रयात्मकस्य सूर्योदयात् प्राक् पञ्चघटकात्मकस्य च कालस्य नामनी । संधाशब्दोऽप्यस्ति । 'संधा संध्या पितृप्रसू: ' इति वैजयन्ती (पृ. २२, श्लो. ६९ ) ॥ २-३ ॥ 1 वैजयन्तीकारेण A1. 2 कल्य° B3- 3 प्रभातं सजितं B; मुद्रितग्रन्थे च. प्राह्णापराह्नमध्याह्वास्त्रिसंध्यमथ शर्वरी | निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ॥ ४ ॥ विभावरीतमस्विन्यौ रजनी यामिनी तमी । (वि.) प्राह्न इति – अह्नः प्रान्ते भवः प्राह्नः । अह्नः अपरो भागः अपराह्नः । अह्नो मध्यो भाग: मध्याह्नः । एते त्रयः समाहृताः त्रिसंध्यं भवति । तिसृणां संध्यानां समाहारः त्रिसंध्यम् || शृणाति 'लोकचक्षूंपीति शर्वरी । 'शू हिंसायाम्' । नितरां इयतीति सर्वचेष्टा: 'निशा | निशीथोऽस्त्यस्यामिति' निशीथिनी । राति ददाति सुखमिति रात्रिः । 'रा दाने ' । त्रयो यामा ग्यस्याः सां त्रियामा | विश्रमाय क्षणमवसरं ददतीति क्षणदा । 'दादाने' । क्षपयति आयुरिति क्षपा । 'क्षि क्षये' | तमसावृतत्वात् " विभावरी । तमोऽस्यामस्तीति तमस्विनी । तमसा 'रज्यत इति रजनी । 'रञ्ज रागे ' । ।
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४९
एतत् पृष्ठम् परिष्कृतम् अस्ति