अमरकोशः [प्रथमकाण्डः ७६ यामा अस्याः सन्तीति यामिनी । तमयति चक्रवाकान् तमी । 'तमु ग्लानौ' । तमा इति वा पाठः । रात्रिनाम नि ॥ ४ ॥ 1 प्रारम्भ: B1, D1, I, Ks, W2. 2 सर्वचेष्टा: W2. इति निशा । 'शी स्वप्ने । नितरामस्यति निरस्यति सर्वचेष्टा इति वा निशा | B2 ; D1, W1 add ‘शो तनूकरणे . 3 नितरामस्थां शेरत ‘अस निरसने' 5 यस्यां D1. 6 अवकाश 4 अस्या: W1. A, B1, T, U. 7 भाभिः वियत इति भावरी, भावरी न भवतीति विभावरी, 'वृञ् वरणे'; भा कान्तिः, न विद्यते भा यस्य तत् विभं तमः, तेन विभेन आ समन्तात् वियत इति विभावरी 8 रञ्जयति B1, D1, I, Ks, W2. चा B2. (पा.) प्राह - त्रिसंध्यम् । प्राह्न् इति पूर्वाह्नः । अपराह्न इति सायाह्नः । मध्याह्न इति मध्यंदिनपर्यायः । एतेषां त्रयाणां समाहारस्त्रिसंध्यम् | त्रिसंध्यी इति च कतिचित् कथयन्ति । समाहारस्यैकत्वाद् 'एकवचनम् ॥ अथ शर्वरी–तमी । 'तमासिता विरात्र: स्याद् वासुरा यामिनी तमी' इति रभसकोशपाठात् तमा इत्यपि भवति । रात्रि- नामानि ॥ ४ ॥ 1 Aj adds पर्याय: .omit. 5 A1 adds पक्षद्वयेऽपि. 2 दिनमध्य° B3. 3 Bg adds संध्यानां. 4 Bg, Ba तमिस्रा तामसी रात्रिज्यौत्स्नी चन्द्रिकयान्विता ॥ ५ ॥ आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी | (वि.) तमिस्रुति – तमोऽस्त्यस्यामिति तमिस्रा । तमोबहुला 'तामसी । तमोयुक्त- रात्रिनामनी || ज्योत्स्ना अस्त्यस्यामिति ज्योत्स्नी । ज्योत्स्ना ज्योत्स्नीति वा पाठः । चन्द्रिकायुक्तरात्रिनाम || उभय हनी पक्षाविव यस्याः सा पक्षिणी । 'उभयतः अहोयुक्त- रात्रिनाम ॥ ५ ॥ 1 अस्याः A, B1, T. 2 तमसां समूह: तामसम्, तदस्यास्तीति तामसी B2. 3 ज्योत्स्नी, आकारान्तोऽप्यस्ति B1, I, K5, W2; Kg omits 4 lines. 4 उभयाहो D1, I, W2; उभयत्राहोयुक्त निशानाम W1. (पा.) तमिस्रा - रात्रिः । तमोयुक्तरात्रिस्तमिस्रा स्यात् । ज्योत्स्नी चन्द्रिकया- न्विता। चन्द्रिकायुक्तरात्रिर्ज्योत्स्नी स्यात् । 'पूर्णेन्दुस्तु दिनंमन्या' । पूर्णचन्द्रयुक्तरात्रिर्दिनं- मन्या स्यात् । आगामि – पक्षिणी | पक्षद्वयवदुभयतोवर्त्यह: संयुक्ता रात्रिः पक्षिणी स्यात् ॥ ५ ॥
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१५०
एतत् पृष्ठम् परिष्कृतम् अस्ति