अमरकोशः [प्रथमकाण्डः (वि). अष्टादशेति – निमिषतीति निमेषः । ते अष्टादश काष्ठा भवति । काशत इति काष्ठा । ताः काष्ठाः त्रिंशत् कला भवति । कालं कलयतीति कला । ताः कलाः त्रिंशत् क्षणो भवति । क्षिणोति हिनस्तीति क्षण: । 'क्षिणु हिंसायाम् ' । ते क्षणा: द्वादश मुहूर्तो' भवति । 'मुहुर्मुहुरियर्तीति 'मुहूर्त: । ‘ऋ गतौ’ ॥ ११ ॥ ८० 1 निमिष: A, B1, T; U adds 'मिष उन्मीलने '. दीप्तौ '. 3 ' कल किल क्षेपे' D1. 4 क्षणं I. ( काश omits one मुहुः • 7 मुह्यतीति मुहु, इयतिं गच्छतीत्यर्थः । आहत्य उभयधात्वर्थमेलनात् मुहूर्तो भवति । ‘मुह वैचित्ये’, ‘ऋ गतौ’ B2. (पा.) अष्टादश - काष्टा । मनुष्याक्षिपक्ष्मपरिक्षेपकालो निमेषो निमिषश्च भवति । ' निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने' इति विश्वप्रकाशिका (पृ. १७२, लो. १५) । निमेषा अष्टादश स्युश्चेत् काष्ठा || त्रिंशत्तु ताः कला | काष्ठात्रिंशच्चेत् कला | तास्तु त्रिंशत् क्षणः । त्रिंशत्कला: क्षणः । ते तु – अस्त्रियाम् । क्षणा: द्वादश स्युश्चेत् मुहूर्तः ॥ ११ ॥ 1 B3 adds स चास्त्रियाम् . ± D2, I, K1, Wı add मुहूर्त K.. 6 Wa 5 ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ॥ १२ ॥ पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ । (वि.) ते त्विति - ते तु मुहूर्ता: त्रिंशत् अहोरात्रो भवति । अह्ना सहिता रात्रिः अहोरात्रः । तेऽहोरात्राः पञ्चदश पक्षो भवति । पचति भूतानि पक्षः । 'डुपचष् पाके'। 'पक्ष्यते वा पक्षः । 'पक्ष परिग्रहे' । पूर्वापरौ पक्षौ क्रमेण शुक्लकृष्णनामकौ भवतः । उभौ तौ मासो भवति ॥ १२ ॥ 1 अहोरात्रं K2. 4 Bg adds शरीरादीनि. 2 समेता B1; अह:समेता B2. 5 पक्षति गृह्णातीति वा B2. 3 परिणामयतीत्यर्थ: B2. 6 °नामानौ D2, K2, K5, W1. (पा.) ते तु त्रिंशदहोरात्रः | मुहूर्तत्रिंशत् अहोरात्रः । अत्रापि अस्त्रियाम् इति लिङ्गमन्वेति । अहोरात्रं, द्विरात्रं, त्रिरात्रमिति वामनलिङ्गानुशासने (पृ. १३, लो. १६) तथैवोदाहृतत्वात् ॥ पक्षस्ते दश पञ्च च । अहोरात्राणि 1 पञ्चदश चेत् पक्षः ॥ पक्षौ – कृष्णौ । अत्र पूर्वपक्ष: शुक्लपक्ष: स्यात् । अपरपक्ष: कृष्णपक्षोऽपि भवति ॥
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१५४
एतत् पृष्ठम् परिष्कृतम् अस्ति