४. कालवर्गः] दाक्षिणात्यव्याख्योपेतः ८१ मासस्तु तावुभौ । पक्षौ द्वौ चेन्मासः । माः शब्दोऽपि स्यात् । 'मासौ मासनिशाकरौ ' इति वैजयन्ती (पृ. २७०, श्लो. ६१) । माः सान्तः ॥ १२ ॥ 1 अहोरात्रा: B3. 2 मासि इत्यपि A1. द्वौ द्वौ मार्गादिमासौ स्याहतुस्तैरयनं त्रिभिः ॥ १३ ॥ अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः । ( वि), द्वाविति - मस्यति परिणमतीति मासः । 'मसी परिणामे' । मासः” चन्द्रस्यायं मास इति वा । इयर्तीति ऋतुः । 'ऋ गतौ' । तौ मार्गादिमासौ द्वौ द्वौ ऋतुः भवति । तैः त्रिभिः ऋतुभिः अयनम् । अयते यात्यनेन सूर्यः दक्षिणामुत्तरां चेति अयनम् । 'अय पय गतौ ' । ते द्वे अयने अर्कस्य उदग्दक्षिणागतिश्च वत्सरो भवति । वसन्त्यस्मिन् ऋतवः वत्सरः । 'वस निवासे' ।। १३ ।। 1 मस्यते परिमीयतेऽनेन K3, W2. तस्यायं B1, D1, I, War 4 माघादि° B2. 2 ‘ मसी परिमाणे’ A, I, T. 5 °गती च W2. 3 माश्चन्द्रः (पा.) द्वौ द्वौ - ऋतुः । मार्गशीर्षादिमासद्वयम् ऋतुः स्यात् । तैरयन त्रिभिः । ऋतवस्त्रयश्चेद् अयनम् । अयने-वत्सरः । अर्कस्य उदक् उदीच्याम् अयनं गति- रुत्तरायणम् । दक्षिणा दक्षिणस्यामयनं गतिर्दक्षिणायनम् । ते त्वयने वत्सरः ।। १३ ।। 1 A1 adds उदगिति अस्तातिप्रत्ययान्तस्योदीचीशब्दस्य सप्तमी, दक्षिणा इति आच्- प्रत्ययान्तदक्षिणाशब्दस्य सप्तमी. 2 A adds जाता गति:. समरात्रिंदिवे काले विषुवद् विषुवं च तत् ॥ १४ ॥ (पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा | नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे ॥) मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः । (वि.) समेति–रात्रिश्च दिवा च रात्रिंंदिवम् । समं रात्रिंदिवं यस्मिन् काले स समरात्रिंदिवः। अस्मिन् काले विषुवत् विषुवं च भवतः । अहोरात्रयोः विषु' साम्यमत्रास्तीति विषुवत् । विषुवं च । पुष्यनक्षत्रयुक्ता पौर्णमासी पौषी, सा यत्रास्ति मासे स नाम्ना पौष: । अपरे एकादश' माघाद्या एवमूह्याः' । कथम् ? 'मघानक्षत्रयुक्ता 6
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१५५
एतत् पृष्ठम् परिष्कृतम् अस्ति