दाक्षिणात्यव्याख्योपेतः ८३ वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् ॥ १६ ॥ आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः । ४. कालवर्गः] (वि.) वैशाख इति —–वैशाखी अनास्तीति वैशाखः । मधौ साधुः माधवः । राधी अत्रास्तीति राधः । वैशाखनामानि || ज्येष्ठी अनास्तीति ज्येष्ठ: । शोचयति तापेन प्राणिन इति शुक्र: । 'शुच शोके ' । ज्येष्टमासनामनी ॥ जनान् तापेन शोचयतीति शुचिः । आषाढाभियुक्ता पौर्णमासी आषाढी । सा अत्रास्तीति आषाढः । आषाढमासना- मनी ॥ श्रावणी अत्रास्तीति श्रावणः । श्रावणिकश्च । न बभस्ति न भाति मेघैः नभाः । 'भस भर्त्सनदीप्त्योः' । न भासते मेघैरिति वा । 'भास दीप्तौ' । तपोऽत्र नभ्यते नश्यतीति वा नभाः" । सान्तः | नभोऽत्राभिभवतीति वा । णभ 7 श्रावणनामानि ॥ १६ ॥ 6 हिंसायाम् ' । 3 ज्येष्ठः 5 नभते A, B1, T. 6 भातीति भाः, स न भवतीति 1 A, B2, D1, I, We add 'मास'. 2 ज्येष्ठायुक्ता पूर्णिमा ज्येष्ठी B2. K3, W1. 4 तापयति B2. नभा: B2. 7 D2, Kg, U, We add 'मास'. (पा.) वैशाखे – राधः । वैशाखमासनामानि ॥ ज्येष्ठे शुक्रः । ज्येष्ठमासनामनी ॥ शुचिस्त्वयम् आषाढे | आषाढमासन मनी ॥ श्रावणे - सः । श्रावणमासनामानि ॥ १६ ॥ स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः ॥ १७ ॥ स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके। बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ॥ १८ ॥ (वि.) स्युरिति – नभसि साधुः नभस्यः | प्रोष्टपदी अत्रास्तीति -प्रोष्ठपदः ।
- भद्राभ्यां युक्ता पौर्णमासी भाद्री | सा अत्रास्तीति भाद्रः । भाद्रपदी अत्रास्तीति
भाद्रपदः । 'भाद्रपदनामानि ॥ अश्विनीनक्षत्रयुक्ता पौर्णमासी आश्विनी । सा अत्रास्तीति आश्विनः। 'दीक्षितैरिष्यत इति इषः । 'इषु इच्छा याम्' । आश्वयुजी अत्रास्तीति आश्वयुजः । आश्वयुजमासनामानि ॥ कार्त्तिकी अत्रास्तीति कार्त्तिकः । कार्त्तिकिकञ्च । 'बाहुली अत्रास्तीति बाहुल: । 10ऊर्जमन्नमन्त्रास्तीति ऊर्जः । कार्त्तिकमासनामानि ॥ हिमेन हन्तीति हेमन्तःभ्। हेमन्तऋतुनाम ॥ शीतेन गात्राणि शिनोति तनूकरोतीति शिशिरः । ‘शिञ् निशातने' । शिशिरऋतुनाम ।। १७-१८ ॥ 2 प्रौष्ठपद: W1. 3 भद्रया युक्ता 1 प्रोष्ठपदायुक्ता पूर्णिमा प्रोष्ठपदी A. Ks, U, W2. 4 पूर्णिमा B2, D.. 5 भाद्रपदायुक्ता (पौर्णमासी U) भाद्रपदी B., K..