पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ 8 6 D2, K1, K3, K5, U, अश्वयुग्युक्ता आश्वयुजी D1. 10 ऊ बलमत्रेति ऊर्ज: B2. अमरकोशः [ प्रथमकाण्डः W1 add 'मास'. 7 B2, W2 omit दीक्षितैः 9 ' बहुलायुक्ता पौर्णमासी बाहुली B1, D1, I, Kg. 11 ‘हन हिंसांगत्योः’ B2, D1. (पा.) स्युः – समाः । भाद्रपदमासनामानि || स्वादाश्विन – अपि । आश्वयुज- मासनामानि । स्यात्तु–कार्त्तिकिकः । कार्त्तिकमासनामानि ॥ हेमन्तः । हेमन्तर्तुनाम | शरदत्ययहिमागमादिशब्दाः कविप्रयुक्ताः । 'पतितमेव हिमागममङ्गिनां वपुषि कान्तिहरं शरदत्यये ' । 'तपेन वर्षा: शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च' । (शिशु. १. ६६) इत्यादि | शिशिरोऽस्त्रियाम् । शिशिरर्तुनाम ।। १७-१८ ।। वसन्ते पुष्पसमयः सुरभिग्रष्म ऊष्मकः । निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः ॥ १९ ॥ (वि.) वसन्त इति—'वसन्त्यस्मिन् 'सुखं वसन्तः । ‘वस निवासे’। पुष्पणां समयः पुष्पसमयः। सुष्ठु 'रभते आह्लादनं कर्तुमारभतेऽत्र सुरभिः । 'रभ राभस्ये । वसन्तऋतुनामानि ॥ जलं गिरतीति ग्रीष्मः । 'गृ निगरणे' । ऊष्माणं करोतीति ऊष्मकः । निदह्यते जनोऽत्र निदाघः । 'दह भस्मीकरणे' । उष्णस्योपगमः उष्णोपगमः । ओषति तापेनेति उष्ण: । 'उष प्लुष दाहे' । ऊष्मणः आगमः ऊष्मागमः । तपतीति तपः । 'तप संतापे' | अकारान्तोऽयम् । ग्रीष्मऋतुनामानि ॥ १९ ॥ 1 वसति Da. कर्तुं शीलमस्यास्तीति B2. 6 सकारान्तश्च D1. 2 सुखेन W1; I adds यथा तथा. 4 D1 adds ' डुकृञ् करणे. 3 सुष्ठु रम्भितम् आह्लादकं 5 निदहति जनान् B1. (पा.) वसन्ते – सुरभिः । वसन्तर्तुनामानि ॥ ग्रीष्म - तपः । अकारान्तोऽयं तपः । ग्रीष्मर्तुनामानि ॥ १९ ॥ स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत् स्त्रियाम् । षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् ॥ २० ॥ (वि.) स्त्रियामिति – 1 प्रवर्षतीति प्रावृट् । 'वृष सेचने' । अनुवर्षमस्तीति वर्षाः । बहुवचनमेव स्त्रियां वर्तते । वर्षर्तुनामनी ॥ शृणाति पङ्कं जलं च शरत् । 'शू हिंसायाम्' । शरतुनाम || अमी षट् मार्गादीनां मासानां युगैः युग्मैः मासैः क्रमात् 'हेमन्तादिऋतवो भवन्ति ।। २० ।।