८६ अमरकोशः दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ २२ ॥ (वि.) दैवे इति – दैवे द्वे युगसहस्रे 'ब्राह्मः अहोरात्रः स्यात् । ब्रह्मणोऽयं ब्राह्मः । तौ नृणां स्थितिक्षयात्मकौ कल्पौ भवतः । कल्पयति नृणां नाशं करोतीति कल्पः। ‘कृपू ‘सामर्थ्ये। दिव्यानां युगानामेकसप्ततिः मन्वन्तरं भवति । मनोरन्तरं मन्वन्तरम् ॥ २२ ॥ 3 काशं A, B1, W2; अवकाश B2.. 1 दैवयुगसहस्रं A, B2. 4 ‘क्लप क्लृप्तौ ' A, D2, K5. (पा.) दैवे – ब्राह्मः। चेत् ब्रह्मणः अहोरात्रो भवति [ प्रथमकाण्ड: 2 ब्रह्मण: U. 'दैवयुगमित्युक्ते मनुष्यचतुर्युगम् । ते युगे द्वे सहस्रे अत्र कल्पाभ्यां 'दिवारात्रिविभागः ॥ कल्पौ- नृणाम् । स्थितिक्षयात्मकौ कल्पौ भवतः । तावित्यनेन बुद्धिस्थदिवारात्र्योः परामर्शः ॥ मन्वन्तरं- एकसप्ततिः । चतुर्दशदलनस्य कल्पस्य एकैको भागो मन्वन्तरं भवति । मानुषचतुर्युगं दिव्यं युगम् । तेषामेकाधिका सप्ततिः ॥ २२ ॥ 1 दिव्य° A1. 2 अहोरात्र ° B3, B4. 3 विभागो A1.
- प्रलयः कल्पः क्षयः कल्पान्त इत्यपि |
संवर्तः अस्त्री पङ्कं पुमान् पाप्मा पापं किल्बिषकल्मषम् ॥ २३ ॥ कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् । स्याद्धर्मम स्त्रियां पुण्यश्रेयसी सुकृतं वृषः ॥ २४ ।। । (वि.) संवर्त इति - संवर्तते क्षीयते जगदत्रेति संवर्तः । 'वृतु वर्तने' । ‘प्रलीयते जगदत्रेति प्रलयः । 'लीङ् श्लेषणे' | जगन्नाशः कल्प्यतेऽत्रेति कल्पः । ‘कृपू सामर्थ्ये ' । क्षीयते जगदत्र क्षयः । 'क्षि क्षये' । कल्पस्यान्तः कल्पान्तः । संहारकालना- मानि ॥ कम्पते 'अस्मात् पङ्कः । अक्षरविपर्ययः । 'कपि चलने' । सभामध्ये पच्यते वा । 'पचि विस्तारे'। पच्यते व्यक्तीक्रियते वा पङ्कः । 'पचि व्यक्तीकरणे' । पतति येन नरके पाप्मा। ‘पत्ऌ गतौ' । पान्त्यस्मादिति वा पाप्मा । पापं च । 'पा रक्षणे ' । कल्यते चित्रगुप्तेन गण्यते किल्बिषम् । कल्मषं कलुषं च । 'कल संख्याने ' । कलयति नरके वा कलुषम् । ‘कल किल क्षेपे' | 'वर्ज्यते वृजिनम् । 'वृजी वर्जने' ।