पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

९२ अमरकोशः धीर्घारणावती मेधा संकल्पः कर्म मानसम् । (अवधानं समाधानं प्रणिधानं तथैव च ।) -6 6 (वि.) बुद्धिरिति — बुध्यतेऽनया बुद्धिः । 'बुध अवगमने’ । मन्यते मनीषा। " मन ज्ञाने' । 'मनस ईषावत् लाङ्गलदण्डवत् संबन्धाद्वा । वृष्णोतीति धिषणा । “ञिधृषा प्रागल्भ्ये ' । ध्यायतेऽनया धीः । 'ध्यै चिन्तायाम् ' । प्रज्ञायतेऽनया प्रज्ञा । 'ज्ञा अवबोधने' । शेयं मोहं मुष्णातीति शेमुषी । 'मुष स्तेये ' । मन्यतेऽनयेति मतिः । 'मन ज्ञाने' । ' प्रेक्षते यया प्रेक्षा । 'ईक्ष दर्शने' । उपलभ्यतेऽनयेति उपलब्धिः। 'डुलभष् प्राप्तौ' । चेतन्त्यनयेति चित् । 'चिती संज्ञाने' । अनया सम्यग्वेत्तीति संवित् । 'विद ज्ञाने' । प्रतिपद्यतेऽनया प्रतिपत् । 'पद्ऌ गतौ' । ज्ञायतेऽनया ज्ञप्तिः । ‘ज्ञा अवबोधने' । चेतयतेऽनया चेतना | बुद्धिनामानि ॥ मेधते सर्वमनुभूतमस्यामिति मेधा । 'मेधृ संगमे' | 'स्मृतिमबुद्धिनाम || सम्यक् 'क्लृप्यतेऽनेनेति संकल्पः । ' ' कृपू सामर्थ्य' । मानसव्यापारनाम ॥ १ ॥ 1 मनसः ईषा D2, K1, K2. 4 यथा B2, D2, I, K1, K2, W1. 2 A, B1, Tomit अनया. 5 चेतयते यया B2, D2, K1, Y. B1, W2. 7 कल्प्यते D1, D2, W2; कल्पते A, B1, T. व्यापार : संकल्प: D1. 9' क्लृप क्लृतौ ' A, T, W1. 6 [प्रथमकाण्डः 3 प्रेक्ष्यते B1, W2. 6 अतिबुद्धिनाम 8 ' इदमहं कुर्यामिति मनसो (पा.) बुद्धिर्मनीषा - शेमुषी । तालव्यादिः । मतिः – चेतनाः । बुद्धिनामानि । 'प्रतिभोपलभा पण्डा' । एतानि च ॥ धीः– मेधा | धारणगुणयुक्ता धीर्मेधा स्यात् । ‘षोढा धीस्तत्त्वधीः पण्डा मेधा धीर्धारणक्षमा । ऊहापोहक्षमा चार्वी गृहीतिर्ग्रहणक्षमा || शुश्रूषा बहुला श्रौती श्रवणज्ञा तु चत्वरी || ' इति षड्डिधबुद्धीनां मध्ये एका ॥ संकल्पः कर्म मानसम् । मानसव्यापारः संकल्पः ॥ १ ॥ चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा || २ || (विमर्शो भावना चैव वासना च निगद्यते ।) अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः । संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ ३ ॥