पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [ प्रथमकाण्ड: (वि.) रूपमिति – रूप्यते चक्षुषा निरूप्यते रूपम् । ‘रूप 'रूपक्रियायाम् ' । 2 शपं ददातीति शब्दः। ‘शप आक्रोशे' । गं गमनं धयतीति गन्धः । 'धेट् पाने ' । गन्ध्यतेऽनेनेति वा । ‘गन्ध अर्दने' । 'रस्यतेऽनेनेति रसः । 'रस आस्वादने' । स्पृश्यते स्पर्शः । 'स्पृश संस्पर्शने' । अमी पञ्च विषयगोचरेन्द्रियार्थनामा नो भवन्ति ॥ 4 विसिन्वन्ति बघ्नन्ति स्वानुभवाय पुरुषं विषयाः । 'षिञ् बन्धने' | गाव: इन्द्रियाणि चरन्त्यत्र गोचराः । 'चर गतिभक्षणयो: ' । 'इन्द्रियैरर्थ्यन्त इति इन्द्रियार्था: । 'अर्थ उपयाच्ञायाम्' । हृष्यतीति हृषीकम् । 'हृष तुष्टौ' | विषयोऽस्यास्तीति विषय | 'इन्द्रस्य आत्मनो लिङ्गम् इन्द्रियम् । इन्द्रियनामानि || कर्मणः साधनम् इन्द्रियं कर्मेन्द्रियम् । वाक्पाणिपादोपस्थनामानि ॥ धियः साधनमिन्द्रियं धीन्द्रियम्' | नेत्र- घ्राणरसनत्वक्श्रोत्रपञ्चकस्य नामानि ॥ मनस्तूभयात्मकम् ।। ७-८ ।। ९६ 1 निरूपणे K2, Y. ददातीति शब्द: B2 ; D1, I add ‘दा दाने. D2, I, T, W2. 8 ° रसना° Y. 5 K2 adds यन्ति. 2 शं सुखं पातीति शपू, तं A; शपं सुखकारणं श्रवणादिकं 3 ° रसोऽनेन D2, I. 4 विषिण्वन्ति 7 मनोनेत्रादि W2- 6 Wi adds तनो: . (पा.) रूपं - इन्द्रियार्थाश्च । रूपादीनां पञ्चानां नामानि ॥ हृषीकं – इन्द्रियम् । इन्द्रियसामान्यनामानि । पूर्वापरसाहचर्याद् विषयिशब्दो नपुंसकः । ‘विषयी राज्ञि कन्दर्पे विषयस्थजने च' ना । अर्थवद्विषयोपेत इन्द्रिये तु नपुंसकम् ॥ ' इति वैजयन्ती (पृ. २६३, लो. ७५-६) । कर्मेन्द्रियं – धीन्द्रियम् । पायूपस्थपाणि- पादवाचः पञ्च कर्मेन्द्रियाणि । 'नेत्रश्रोत्रजिह्वाघ्राणत्वचः पञ्च बुद्धीन्द्रियाणि । काकाक्षि- न्यायान्मनः कर्मेन्द्रिय बुद्धीन्द्रियं च भवति ।। ७-८॥ 2 अपि वा A1, Bg. 4 चक्षु:° B3. 1 रूपादयः पञ्च विषयशब्दवाच्या: A1. 3 वाचा: A1. तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः । तिक्तोऽम्ब्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥ (वि.) तुवर इति – तौति हृदयमिति तुवरः | 'तु गतिवृद्धिहिंसासु' ' । कषति पित्तमिति कषायः । 'कष हिंसा याम्' । खदिरादिरसनामनी ॥ मधु माधुर्यम् अस्यास्तीति 'मधुरः । इक्ष्वादिरसनाम || लुनाति 'वातं लवणः । 'लूङ् छेदने' । सैन्धवा दिरसनाम ||