धीवर्गः] इति (मेघ. १. १) । अन्तिमो यथा- दाक्षिणात्यव्याख्योपेतः आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः 'संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ इति (मेघ. १. ११) । विस्रं स्याद | मगन्धि यत् । यन्मत्स्यादिगन्धवत्तन्नाम ।। ११ ।। 2 अस्मिन्नर्थे A1. 3 आद्यो B3. 1 यो गन्धो घ्राणतर्पणं करोति तन्नामानि A1. 4 Pāda omitted in B3. 5 A1 adds °सदृशगन्ध. शुक्लशुभ्रशुचिश्वेतविशदश्येत पाण्डराः ॥ १२ ॥ अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः । हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३ ॥ 16 ९९ (वि.) शुक्लेति – शोकति गच्छति मनोऽस्मिन्निति शुक्लः। ‘शुक गतौ’। 6 शुक्रेति वा पाठः। शोभत इति शुभ्रः । 'शुभ दीप्तौ' । शोचति शुच्यतीति वा शुचिः । 'शुच शोके'। धातून मनेकार्थत्वात् । श्वेतते श्वेतः । ‘श्विता वर्णे' । श्वयति मनोऽस्मिन्निति वा। ‘टुओश्वि गतिवृद्धयोः' । चित्तं विशतीति विशदः । 'विश प्रवेशने' । श्यायते जनमनांसि गच्छतीति श्येतः । ‘श्यैङ् गतौ' । पण्यते स्तूयते पाण्डरः । 'पण व्यवहारे स्तुतौ च ' । पण्डते मनोऽस्मिन्निति वा । 'पडि गतौ ' । पाण्डुः । पाण्डुरश्च । अवदायते अवदातः। ‘दैप् शोधने’। सिनोतीति मनः सितः । ‘पिञ् बन्धने' । गुरते मनोऽस्मिन् उद्युङ्क्ते गौरः। ‘गुरी उद्यमने' । अवलक्ष्यत इति 'वलक्षः । 'लक्ष दर्शनाङ्कनयोः' । बलति प्राणित्यनेन’ बलम् । ‘बल प्राणने' । बले रक्षो वा 'वलक्षः । रेफलोपः । धूयते मलोऽत्रेति धवलः । ‘धूञ्ञ् कम्पने’। अर्ज्यते सवैरित्यर्जुनः । 'अर्ज सर्ज अर्जने' । मनो हरतीति हरिणः । 'हुञ् हरणे' | एतानि क्षीरशादिसवर्णनामानि ॥ धुनोति कुरूपतया चित्तं धूसरः। 'धूञ् कम्पने' । अव्यक्तधवनाम ।। २२-१३ ।। ‘शुभ शोभने' I, Y. 2 शुध्यति B1, D2. 3 Bg adds एवं व्याख्यातं. 4 विशदयति W2; वीनां पक्षिणां शं सुखं ददातीति वा, 'दाणू दाने', विशन्तं प्रवेष्टुकामं दाति खण्डयतीति वा विशदः, 'दोऽवखण्डने', धातू नामनेकार्थत्वात् खण्डनार्थपदस्य क्लेशपरत्वम् B2. 5 उद्यमयतीति B2. 6 वं वरुणं जलं वा लक्षयति द्रव्यत्वेन करोतीति वलक्षः | तस्य गुणत्वात् । गुणाश्रयं द्रव्यमिति हि द्रव्यलक्षणम् Bg. 7 सत्वगुणेन तद्वलं रक्षतीति वा B.. 8 वबयोरभेद: A, Kg. 9 यो धूयते च सृज्यते च स धूसर :, ईषत् स्वल्पं पाण्डुः ईषत्पाण्डुः, ईपद्धवलनामानि B..
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७३
एतत् पृष्ठम् परिष्कृतम् अस्ति