पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [ प्रथमकाण्डः (पा.) शुक्लशुभ्र – पाण्डुः । बलक्ष इति वा । धवलनामानि ॥ ईषत्पाण्डु- स्तु धूसरः । किंचिद्धवलनाम ।। १२-१३ ।। १०० 1 अल्प° A1. कृष्णे नीलासितश्यामकालश्यामलमेचकाः । पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ।। १४ ।। । (वि.) कृष्ण इति – कृषति चित्तमाकर्षतीति कृष्णः । 'कृष विलेखने' । नीलवर्णत्वान्नीलः । 'नील वर्णे ' । सितादन्योऽसितः । श्यायतें श्यामः । 'श्यैङ् गतौ वृद्धौ च ' । 'कलयति प्रेरयतीति काल: । 'कल किल क्षेपे' । 'श्यामद्रव्यमत्रास्तीति श्यामलः । 'मचति वर्णान्तरेण मिश्रीभवितुमर्हतीति मेचकः । 'मच 'मुचि कल्कने ' । मयूरकण्ठादिवर्णनाम || पिबति चित्तं पीतः । 'पा पाने' । गुरतीति गौर: । 'गुरी 'उद्यमे ' । 'हरिद्राया इव आभा यस्य सः हरिद्राभः | हरिद्रादिवर्णनामानि | पलाश- वर्णस्यायं पालाश: । हरति मनोऽत्रेति हरितः । हरिच्च । पलाशादिवर्णनामानि ॥ १४ ॥ 2 कालयति I, Ks, W2, Y. 4 मेचयति मच मुचि° Y. 1 कर्षति B2, D1, K5, U, W2. 3 श्यामं Y.. मिश्रीभवति B2, D1, W2, Y. 56 ‘मच कल शिल्पिसंज्ञयो: ' Bg, I, W2; 6 उद्यमने I. 7 हरिद्राभा इव आभा B2, Kg. & पलाशस्य वर्ण: इव वर्ण: पालाश: B2, U. (पा.) कृष्णे – मेचकाः । कृष्णवर्णनामानि । 'कल्माषञ्च सितेतर:' । एते द्वे च ॥ पीतो— हरिद्राभ: । हरिद्रावर्णनामानि ॥ पालाशो - हरित् । पलाशपत्रसदृशवर्ण- नामानि ॥ १४ ॥ लोहितो रोहितो रक्तः शोण: कोकनदच्छविः । अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥ श्याव: स्यात् कपिशो धूम्रधूमलौ कृष्णलोहिते । (वि.) लोहित इति – रोहति प्रादुर्भवति संध्यादौ रोहितः । लोहितश्च । 6 'रुह बीजजन्मनि प्रादुर्भावे च ' । 'रज्यते रक्तः । 'रञ्ज रागे' । शोणतीति शोणः । ‘शोण वर्णगत्योः' । कोकनदस्य रक्तोत्पलस्येव 'छविर्यस्य सः कोकनदच्छविः । रक्तो- त्पलवर्णनामानि ॥ आसां द्रव्यादियर्ति शीघ्रं गच्छतीत्यरुणः' । 'ऋ गतौ ' । अव्यक्त