अमरकोशः [द्वितीयकाण्डः (वि.) पिच्छिलेति–पिच्छा निर्यासोऽस्या अस्तीति पिच्छिला । पूरयति तूलेन फलानीति पूरणी । 'पूरी आप्यायने' । मुञ्चति रसमिति मोचा। 'मुच्ऌ मोक्षणे' । स्थिरमायुर्यस्य 'कालसहत्वात् स्थिरायुः । चिरमायुर्यस्य चिरायुरिति वा पाठः । शालते विटपैरिति शाल्मलि: । शाल्मली वा । 'शाल लाघायाम् ' । शाल्मलीनामानि । बरुगुचेट्टु' ॥ परराङ्गुलिसङ्गत्वात् पिच्छा | शाल्मलीं वेष्टयतीति शाल्मलीवेष्टः । शाल्म- लिनिर्यासनाम। ' 4 चूरुगुबंक' || रोचते सूक्ष्मतयेति रोचनः । 'रुच दीप्तौ' । कूटा कुत्सिता चासौ शाल्मलिश्च कूटशाल्मलि: । ' ' कोण्ड बूरुगु' || चिरिणोति चिरी । ' चिरि जूरि दाश हिंसायाम्' । चिरिणं हिंस्ररोगं बिलति भिनत्तीति चिरिबिल्वः । 'बिल भेदने' । नक्तमलति मण् अतीति नक्तमाल: । 'अल भूषणादौ । नक्तं रात्रौ भूताना- मालयत्वात् ' नक्तमालः । कं जलं रञ्जयतीति करजः । करञ्जकश्च । 'रञ्ज रागे' । करञ्जवृक्षनामानि। ‘‘कानुगुचेट्टु ।। ४६-७ ।। २४४ 2 शाल्यते Pt2. 1 स्थिरत्वात् J2. 5' पिन्नबूरुगु' K2, Ks; ‘चिकबुर' J2. भूतसंघोऽस्मिन्निति J2. 7 ' हलिगिनमर' J2. 3 ' बूरद मर' J2. 4 'बुरदवीयल' J2. 6 आश्रयत्वात् I, K2, Pt2; भूताश्रयत्वादलं (पा.) पिच्छिला - शाल्मलिर्द्वयोः । 'शालते शाल्मलिः शलति शल्मलिः' इति सुभूतिटीकायां दीर्घादिर्हस्वादिश्च व्युत्पादितः । शाल्मलिवृक्षनामानि । 'भूरुग' ॥ पिच्छा - शाल्मलीवेष्टे । शाल्मलिनिर्यासनाम । 'बुरुगबंक' | रोचन:- शाल्मलिः । हंसशाल्मलिनामनी । 'कोण्डवूरुङ्ग' ॥ चिरबिल्वो– करञ्जके । करञ्जनामानि | ‘कानुग' ॥४६ - ७॥ 6 1' बूरुगुचेट्टु' B3. प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः । करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ॥ ४८ ॥ (वि.) प्रकीर्य इति – प्रकीर्यते कलहस्थान इति प्रकीर्यः । ‘कृ विक्षेपे' । पूतिगन्धिः करजः पूतिकरजः । पूतिकञ्च । कलेः कलहस्य मारकः नाशकः कलिमारकः । कलिं करोतीति कलिकारक इति वा पाठः । पूतिकरञ्जनामानि । ‘नेमलियडुगुचेट्टु’॥ षड् ग्रन्थयो यस्य षड्ग्रन्थः । 'आरुकनुपुलुगलकानुग' ॥ मर्कटवत्' पाटयतीति मर्कटी। 'कोन्तिवन्नेकानुग' ॥ अङ्गारवर्णा वल्लर्मोऽस्याः सन्तीति अङ्गारवल्लरी। ' निप्पुवन्नेगल' पगुत्तुल गलकानुग' ॥ एते करञ्जभेदाः ॥ ४८ ॥
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३१६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति