पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ३०४ न्यस्य' 'कलमादेश्वोत्पत्तियोग्यक्षेत्रस्य' एकैकम् ॥ यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि तत् । येति ॥ यवानाम् (१) यवकानाम् (१) षष्टिकानाम् (१) च भवनं क्षेत्रम् । 'यवयवकषष्टिकाद्यत्' (५|२|३) ॥*॥ यवकः शुकशुन्यो यवः ॥॥ एकैकम् 'यवादिभवनस्य' ॥ तिल्यतैलीनवन्माषोमाणुभङ्गाङ्गिरूपता ॥ ७ ॥ तीति ॥ तिलानाम् (१) माषाणाम् (१) उमानाम् (१) अणूनाम् (१) भङ्गानाम् (१) च भवनं क्षेत्रम् । 'विभाषा तिल-' (५।२।४) इति यत्खनौ (१) ॥ (२) ॥ ॥ माध्यम् ॥ (१) ॥*॥ माषीणम् ॥ (२) ॥ * ॥ उम्यम् ॥ (१) औमीनम् ॥ (२) ॥ ॥ अणव्यम् ॥ (१) ॥॥ अण- वीनम् ॥ (२) ॥ भङ्ग्यम् ॥ (१) ॥ भाङ्गीनम् (२) ॥*॥ 'तिलादिभवनस्य' प्रत्येकं द्वयं द्वयम् ॥ मौनकौद्रवणादि शेषधान्योद्भवक्षमम् । मौनीति ॥ मुद्रानाम् (१) कोद्रवाणाम् (१) च भवनं क्षेत्रम् । ‘धान्यानां भवने’ (५|२|१) इति घम् ॥ ॥ आदि- ना गौधूमीनम् ॥ (१) ॥*॥ कालायीनम् ॥ (१) ॥ * ॥ कौलथीनम् ॥ (१) ॥ ॥ प्रयङ्गवीणम् ॥ (१) ॥॥ चाणकीनम् ॥ (१) ॥*॥ इत्यादि ज्ञेयम् 'धान्योद्भव- क्षेत्रस्य' || वीजाकृतं तूतकृष्टम् वीति ॥ वीजेन सहकृतं कृष्टम् । 'कृञो द्वितीय तृतीयश- म्ववीजात्कृषौ (५१४१५८) इति डाच् ।- अवीजं सवीजं संपन्नम् । वीजाकृतम् - इति खामी । तन्न । 'अभूततद्भावे' इत्यस्याननुवृत्तेः ॥ (१) ॥*॥ (पूर्वम् ) उप्तं च तत् (पश्चात् ) कृष्टं च । ‘पूर्वकाल–’ (२।१९४९) इति समासः ॥ ( २ ) ॥ * ॥ द्वे 'वीजवापोत्तरं कृष्टस्य ॥ सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥ सीति ॥ सीतया संमितम् । 'नौवयोधर्म-' (४१४९१) इति यत् ॥ (१) ॥*॥ कृष्यते स्म । क्तः (३।२।१०२) ॥ (२) ॥*॥ हुलेन कृष्टम् । ‘मतजनहलात्करणजल्पकर्षेषु' (४४) ९७ ) इति यत् ॥ (३) ॥ * ॥ हल्येन तुल्यम् | 'तेन तुल्यम्' (५११११५) इति वतिः ॥ * ॥ त्रीणि 'कृष्टमात्रस्य' || त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् त्रीति || त्रिगुणं कृतम् ‘संख्यायाश्च गुणान्तायाः' (५॥४॥५९) इति डाच् ॥ (१) ॥ ॥ तृतीयं कृतम् । 'कृञो द्वितीय-' (५॥४॥५८) इति डाच् ॥ (२) ॥ * ॥ त्रिवारं हलेन कृष्टम् । 'मतजन–' (४१४१९७) इति यत् । ‘रथसीताहले- भ्यो यद्विधौ' (वा० १९१९७२) इति तदन्तविधेः ॥ (३) ॥*॥ त्रिवारं सीतया संमितम् । यत् (४४९१) ॥ (४) ॥ * ॥ चत्वारि 'वारत्रयकृष्टस्य' ॥ [ द्वितीयं काण्डम् द्विगुणाकृते तु सर्व पूर्व शम्बाकृतमपीह ॥ ९ ॥ द्वीति ॥ द्वितीयाकृतम् ॥ (२) ॥ ॥ द्विहल्यम् ॥ * ॥ (३) ॥ ॥ द्विसीत्यम् ॥ ( ४ ) ॥ * ॥ शमस्यास्ति 'कशंभ्या- म्' (५॥२॥१३८) इति वा । शम्बशब्दो द्वितीयकर्षणे वर्तते । शम्ब॑ कृ॒तम् । 'कृञो द्वितीय- (५१४१५८) इति डाच् ॥ * ॥ 'सरित्सैरिभसम्बाकृतम्' इति दन्त्यादौ वर्णदेशना । तत्र 'षम्ब संबन्धे' ( चु०प० से ० ) ण्यन्तः । सम्यते । घ (३।३।१९) | अच् (३|३|५६) बा ॥ (५) ॥॥ पञ्च 'द्वि- वारकृष्टस्य || द्रोणाढ कादिवापादौ द्रौणिकाढकिकादयः । द्रोणेति ॥ द्रोणस्य वापः । 'तस्य वापः' (५॥१॥४५) इति ठञ् ॥ (१) ॥॥ आढकस्य वापः (५११४५) ॥ (१) ॥*॥ आदिना—प्रस्थस्य वापः | प्रास्थिकः ॥ (१) ॥ * ॥ कुडवस्य वापः | कौडविकः ॥ (१) ॥ 'वापादौ ' इत्यादिना पचायर्थग्रहः । द्रोणम्, आढकं च पचति ( इत्यादि ) । 'संभव - त्यक्हरति पचति' (५1१॥५२) इति ठक् ॥॥ 'द्रोणादिप- रिमितवीह्यादिवापयोग्यक्षेत्रस्य' एकैकम् ॥ खारीवापस्तु खारीकः खेति ॥ खायी वापः । 'खार्या ईकन्' (५|१|३३ ) ॥ (१) ॥॥ एकम् 'खारीवापस्य' ॥ उत्तमर्णादयस्त्रिषु ॥ १० ॥ उत्तेति ॥ (खारीकान्ता वाच्यलिङ्गाः) | पुंनपुंसकयोर्वप्रः केदारः क्षेत्रम् पुमिति ॥ उप्यतेऽत्र | 'डुवप् बीजसंताने' (भ्वा० उ० अ० ) । 'वृधिवपिभ्यां रन्' ( उ० २१२७) 'वप्रस्ताते पुमा- नस्त्री रेणौ क्षेत्रे चये तटे' इति विश्वः (मेदिनी) । 'वप्रः प्राकाररोधसोः । क्षेत्रे ताते चये रेणौ' इति हैमः ॥ ( १ ) ॥ * ॥ के जले शिरसि वा दारोऽस्य | ‘हलदन्तात् -' (६।३।९) इत्यलुक् । केन जलेन दीर्यत इति वा । 'दृ विदारणे' (क्या ० प० से० ) । कर्मणि घञ् (३|३|१९) । 'केदारायञ्च' (४२ ४०) इति निर्देशादेत्वम् । 'के'दारो द्रौ शिवे क्षेत्रे भूमिभेदा- रत्र । 'क्षि निवासगत्योः' (तु०प० अ० ) । हून् ( उ० ४ | लवालयोः' इति विश्वः (मेदिनी) ॥ (२) ॥ ॥ क्षीयते धान्यै- १५९) । 'क्षेत्रं भारतादौ भगाङ्गयोः । केदारे सिद्धभूपढ़योः' इति हैमः । 'क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः' इति विश्वः ॥ (३) ॥ * ॥ त्रीणि 'क्षेत्रस्य' ॥ अरीः | केदारेषु च पश्यन्तः के दारेषु विनिःस्पृहाः' इति दमय- १- केदार एकारवान् 'नमिता: फलभारेण नमिता: शालिम- न्तीयमकात् ॥