३२० रसः इति राजदन्तादिः ( २ | २ | ३१ ) वा | सर्वस्य रसाग्रः ॥ (१) ॥*॥ मण्डते, मण्ड्यते, वा । 'मडि भूषायाम्' (भ्वा० आ० से० ) । अच् (३|१|१३४) | घन् (३।३।१८) वा । मन्यते वा । ‘मन ज्ञाने' ( दि० आ० अ० ) । 'अमन्ताङ्कः' ( उ० १९११४) 'मण्डः पञ्चाङ्गुले शाकभेदे क्लीबं तु मस्तुनि । आमलक्यां स्त्रियां मण्डाथास्त्रियां सारपिच्छयोः' इति विश्वः (मेदिनी) ॥ (२) ॥* ॥ द्वे 'मण्डकस्य' ॥ अमरकोषः । मासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ४९ ॥ मेति ॥ मास्यते । 'मसी परिणामे' ( दि०प० से ० ) । ण्यन्तः बाहुलकादरन् । मा श्रीः सरत्यत्र, इति वा । 'सृ गतौ' (भ्वा०प० अ०) । 'पुंसि -' (३|३|११८) इति घः ॥ (१) ॥ * ॥ आचम्यते । 'चमु अदने' ( भ्वा०प० से० ) । ‘अकर्तरि च' (३॥३।१९ ) इति घन् । वृद्धिः (७/२/११६) ॥ (२) ॥ * ॥ निस्राव्यते । 'स्रु गतौ' ( भ्वा० प० अ० ) । ण्यन्तः । ‘एरच्’ (३।३।५६) । घञ् (३॥३॥१९) वा ॥*॥ — 'विस्रावः' इति मुकुटः ॥ ( ३ ) ॥ ॥ भक्तात्समुद्भवति ॥ * ॥ त्रीणि 'भक्तोद्भवमण्डस्य' || गव्यं त्रिषु गवां सर्वम् गेति ॥ गोरिदम् । 'गोपयसोर्यत्' ( ४ | ३ | १६० ) | 'वान्तो यि प्रत्यये' (६|१|७९) । 'गव्यं नपुंसकं ज्यायां रागद्रव्येऽप्यथ स्त्रियाम् | गोसमूहे त्रिलिङ्गं तु गोदुग्धादौ च गोहिते' ( इति मेदिनी) ॥ (१) ॥ * ॥ सर्व भवविकारावय- वादि ॥*॥ एकम् ‘गोरसस्य' | [ द्वितीयं काण्डम् भ्यामीषन्' ( उ० ४२६ ) ॥ (१) ॥ * ॥ एकम् 'शुष्कगोम- यस्य' || यवागूरुष्णिका श्राणा विलेपी तरला च सा । पेति ॥ पयसो विकारः 'गोपयसोर्यत्' (४|३|१६० ) ॥ (१) ॥ ॥ आज्यं च दधि चादिर्यस्य | आदिना तकं नव- नीतं च ॥ * ॥ एकम् 'घृतदध्यादेः' ॥ द्रप्सं दधि घनेतरत् ॥ ५१ ॥ येति ॥ यौति, यूयते वा । 'यु मिश्रणे' (अ० प० से ० ) । ‘सृयुवचिभ्योऽन्यूजागूजक्नुचः' (उ० ३१८१) इलागूच् ॥ (१) ॥*॥ उष्णैव । ‘ब्राह्मणकोष्णिके संज्ञायाम् (५१२।७१) इति कन् ॥ (२) ॥ * ॥ श्रायते स्म । 'श्री पाके' (अ० प० अ० ) । कर्मणि क्तः (३।२।१०२ ) | 'संयोगादेतः' (८२४३) इति निष्ठानत्वम् ॥ (३) ॥ * ॥ विलिम्पति | 'लिप उपदेहे' (तु० उ० अ०) । पचायच् (३।१।१३४) । गौरादिः (४॥ १॥ ४१) ॥ (४) ॥*॥ तरणम् | तरः | 'तृ प्लवनादौ' प० से०)। ‘ऋदोरप्’ (३) ३१५७) । तर लाति । 'आतोs- इति सर्वानन्दः । 'द्रप्सं दध्यघनं तथा' इति नाममाला ॥ नुप-' (३|२|३) इति कः ॥ ( ५ ) ॥ ॥ पञ्च 'यवाग्वाः' (१) ॥ ॥ घनात् कठिनादन्यत् ॥ * ॥ एकं 'शिथिलदनः' द्वेति ॥ तृप्यन्त्यनेन । 'तृप प्रीणने ' ( दि० प० अ० )। 'अध्यादयश्च ( उ० ४११२) इति ‘त्रप्स्यम्' इति नि- पातः - इति मुकुटः । 'द्रप्सम्' इति स्वामी पठति । दृप्यन्त्य- नेन । 'दृप हर्षादौ' ( दि० प० अ० ) 'अनुदात्तस्य च ' (६ १॥५९) इत्यम् । बाहुलकात् सः । - द्रप्सं द्राक् प्सानीयम्- ( भ्वा० 'लपसी' इति ख्यातायाः ॥ 'दगडा' इति ख्यातस्य । केचित्तु 'द्रप्स' स्थाने सरं पठन्ति । सरति । 'सृ गतौ' ( भ्वा०प०अ० ) | अच् (३|१।१३४)। 'वाणद्रप्सौ सरौ' इति दुर्गात् । - उपरि लवमानम् इति व्याचक्षते ॥ गोविट् गोमयमस्त्रियाम् ॥ ५० ॥ गविति ॥ गोर्विट् ॥ (१) ॥*॥ गोः पुरीषम् | ‘गोश्च पुरीषे' (४।३।१४५) इति मयट् ॥ (२) ॥ ॥ द्वे 'गोम- यस्य ॥ तत्तु शुष्कं करीषोऽस्त्री तेति ॥ कीर्यते । ‘कॄ विक्षेपे' ( तु० प० से ० ) । 'कृतृ- दुग्धं क्षीरं पयः समम् । द्विति ॥ दुह्यते स्म । क्तः (३|२|१०२) | 'दुग्धं क्षीरे पूरितेच' इति हेमचन्द्रः ॥ ( १ ) ॥ * ॥ क्षयणम् । 'क्षीष् हिंसायाम्' (क्र्या०प० अ०) । संपदादिः (वा० ३।३।१०८ ) | क्षियमीरयति । 'ईर गतौ' (अ० आ० से ० ) ण्यन्तः । 'कर्म- ण्यण्’ (३।२।१) | घस्यते वा । 'घस्ऌ अदने' (भ्वा०प० अ० ) । 'घसेः किञ्च' ( उ० ४ | ३४) इतीरन् । 'गमहनजन-' (६|४|९८) इत्युपधालोपः । 'खरिच' (८/४/५५, भा० ६१) इति चम् । 'शासिवसि -' (८१३१६० ) इति षत्वम् । 'क्षीरं पानीयदुग्धयोः' इति हैमः ॥ (२) ॥*॥ पीयते । 'पीङ् पाने' ( दि० आ० अ० ) । पयते वा । 'पय गतौं' ( भ्वा० आ० से ० ) असुन ( उ० ४११८९ ) । पयः क्षीरे च नीरे च' इति हैमः ॥ (३) ॥ * ॥ त्रीणि 'दुग्धस्य ॥ पयस्यमाज्यध्यादि घृतमाज्यं हविः सर्पिः घिति ॥ घ्रियते । 'घृ सेके' (भ्वा०प० अ० ) । 'अजि- घृसिभ्यः कः' ( उ० ३१८९) । 'घृतमाज्याम्बुदीप्तेषु' इति हेमचन्द्रः ॥ (१) ॥ ॥ आञ्ज्यतेऽनेन । ‘अञ्जू व्यक्त्यादौ’ (रु० प० से ० ) 'अजे: संज्ञायाम्' (वा० ३ १ १ १ १०९) इति क्यपू ॥ (२) ॥ ॥ हूयते 'हु दानादौ ' ( जु०प०अ० ) । 'अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः' (वा० २।१०८ ) इतीसिः । 'हविः सर्पिषि होतव्ये' इति हैमः ॥ (३) ॥ * ॥ सर्पति 'सृप गतौ' ( भ्वा०प० से० ) इसिः ( वा ० २।१०८ ) ॥ (४) ॥ ॥ चत्वारि ‘घृतस्य' ॥
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति