३९६ अमरकोषः । तत्र विष्वक्समे निधः । नियतं हन्यते । ‘निघो निमितम्' (३१३१८७) इति साधुः ॥ (१) ॥*॥ एकं 'तुल्यारोहपरिणाहवृक्षादेः' ॥ उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थ कौ ॥ ३६॥ उत्करणम् | निकरणम् । 'क विक्षेपे' | ( तु०प० से ० ) ‘कॄ धान्ये' (३।३।३०) इति घञ् ॥ (१) ॥*॥ (२) ॥ * ॥ द्वे'धान्यानामूर्ध्वक्षेपणस्य' || निगारोद्द्वारविक्षावोग्राहा निगरणादिषु । निगरणम् । 'गृ निगरणे' ( तु०प० से ० ) ' उच्योर्म : ' ( ३ | ३।२९ ) इति घञ् ॥ (१) ॥ ॥ उद्गरणम् | 'गृ शब्दे' (क्या०प० से ० ) । 'उन्योः - ' (३|३|२९) इति घन् ॥ (१) ॥*॥ विक्षवणम् । ‘टु क्षु शब्दे' (अ०प० से ० ) । 'वौ क्षु- श्रुवः' (३|३|२५) इति घञ् ॥ (१) ॥ ॥ उद्ब्रहणम् । 'ग्रह उपादाने’ (क्र्या० उ० से०)। 'उदि ग्रहः' (३|३|३५) इति घञ् ॥ (१) ॥*॥ आदिना उद्गरणम्, विक्षवणम्, उग्रहणम् ॥*॥ क्रमेणैकैकम् ॥ आरत्यवरति विरतय उपरामे आर्येयम् ॥ आरमणम्। 'रमु क्रीडायाम्' (भ्वा० आ० से०) । क्तिन् (३।३।९४ ) ॥ (१) ॥ * ॥ एवमवविभ्याम् ॥ (२) ॥*॥ (३) ॥*॥ उपरमणम् | घञ् (३।३।१८ ) ॥ (४) ॥ * ॥ चत्वारि 'उपरमणस्य' || अथास्त्रियां तु निष्ठेवः ॥ ३७॥ निष्ठतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि । । ‘ष्ठिवु निरसने’ (दि० प० से ० ) घञ् ( ३ | ३ | १८ ) | यत्तु – ‘निष्ठीव्यति’ - इति — विगृह्य - ‘पचाद्यच्’ - इत्युक्तं मु कुटेन । तन्न । निष्ठथूत्यादिभिरेकत्वासंभवात् ॥ ( १ ) ॥*॥ क्तिनू (३।३।९४) ॥ (२) ॥*॥ ल्युट् (३॥३॥११५) | ‘ष्टिवि- षिव्योर्ब्युटि दीर्घो वा' इति स्वामी | पृषोदरादित्वाद्वा दीर्घः- इति मुकुटः ॥ (३) ॥*॥ (४) ॥ ॥ चत्वारि 'मुखेन श्ले- ष्मनिरसनस्य' ॥ जवने जूतिः ‘जुः’ सौनो वेगे । ल्युट् (३/३/११५) ॥ (१) ॥*॥ क्विन् (३।३।९४) । ‘ऊतियूति - ' ( ३ |३|९७ ) इति साधुः । (२) ॥ * ॥ द्वे 'वेगस्य' ॥ सातिस्त्ववसाने स्यात् ‘षोऽन्तकर्मणि' (दि० प० अ०) । किनू (३|३|९४) । ‘ऊतियूति-' (३।३।९७) इति साधुः ॥ ( १ ) ॥ * ॥ ल्युट्र (३ | ३।११५) ॥ (२) ॥*॥ द्वे 'समापनस्य' ॥ अथ ज्वरे जूर्तिः ॥ ३८ ॥ ज्वरणम् । ‘ज्वर रोगे' (भ्वा०प० से ० ) | घन् ( ३ |३| [ तृतीयं काण्डम् १८) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः ॥ (१) ॥ ॥ तिन् (३॥३॥ ९४ ) | 'ज्वरवर - ' (६|४|२१) इत्यू || ( २ ) ॥*॥ द्वे 'ज्वरणस्य' || उदजस्तु पशुप्रेरणम् उद्जनम् । 'अज गतौ' ( भ्वा०प० से ० ) । 'समुदोरजः पशुषु' (३|३|६९) इत्यप् । 'अघञपोः' इति पर्युदासाद्वी- भावो न ॥ (१) ॥*॥ पशूनां प्रेरणम् ॥ ( २ ) ॥*॥ द्वे 'पशुप्रेरणस्य' ॥ . अकरणिरित्यादयः शापे । अकरणम् । ‘आक्रोशे नज्यनि:' (३|३|११२ ) ॥ (१) ॥ * ॥ आदिना अजननिः, अवग्राहः, निग्राहः । 'आक्रो- शेऽवन्योर्महः' (३|३|४५) इति घञ् ॥ * ॥ एकम् 'आक्रो- शनस्य' ॥ गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ॥ ३९ ॥ अपप्रत्ययान्तेभ्यः ‘तस्य समूहः' (४|१२|३७) इत्यर्थे 'गो- त्रोक्षोष्ट्र-’ (४।२।३९) इति वुज् ॥ (१) ॥ ॥ आदिना 'गा- र्गकम्' 'दाक्षकम्' ॥ आपूपिकं शाकुलिकमेवमाद्यमचेतसाम् । समूहः । 'अचित्तहस्तिधेनोष्ठक्' (४|२|४७ ) | आदिना सा- अचेतसां वृन्दम् ॥ ॥ अपूपानां समूहः । शष्कुलीनां क्तुकम् ॥ माणवानां तु माणव्यम् माणवानां समूहः । इति यत् ॥ 'ब्राह्मण माणव-' (४२४२) सहायानां सहायता ॥ ४० ॥ इति तल् ॥ सहायानां समूहः । 'गजसहायाभ्याम् -' (वा० ४।२।४३ ) हल्या हलानाम् हलानां समूहः । ‘पाशादिभ्यो यः' (४|२|४९) ॥ ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् । ब्राह्मणानां वाडवानां समूहः । ब्राह्मण' (४२४२) इति यत् ॥ द्वे पर्शुकानां पृष्ठानां पार्श्व पृष्ठयमिति क्रमात् ॥४१॥ च' (१।४।१६) इति पदत्वाद्भुत्वाभावः ॥ (१) ॥*॥ पु. पर्झनां समूहः । ‘पर्श्वा णस्' (वा० ४२११४३ ) | ‘सिति ष्ठानां समूहः | पृष्ठायन्' (वा० ४२४२ ) | यज्ञविषय इदं स्मरन्ति ॥ खलानां खलिनी खल्यापि खलानां समूहः । 'इनित्रकम्यचच' (४/२/५१) इ-
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति